________________
१२८
ललितविस्ततरासंस्कृतटीका ज्ञानवृद्धिः कार्येति प्रदर्शनार्थ, तथा च तीर्थकरनामकर्महेतून प्रतिपादयतोक्तं "अपुवनाणगहणे इति"
पं...." प्रस्तुतभावान्वयफलतन्निगमनत्वादिति” प्रस्तुतभावस्य सुरगणनरेन्द्रमहितः श्रुतधर्मी भगवानित्येवंलक्षणस्यान्वयः-अनुवृत्तिः स एव फलं साध्यं यस्य तत्तथा तस्य-प्राग्वचनस्य निगमनं-समर्थनं पश्चात्कर्मधारयसमासे भावप्रत्यये च प्रस्तुतभावान्वयफलतन्निगमनत्वं देवदानवनरेन्द्रगणार्चितस्येति यत्तस्मादिति ।।
टी०..."तदेवं श्रुतधर्मादिकराणांस्तुतिमभिधायाधुनाश्रुतधर्ममभिधित्सुराह तमतिमिरेत्यादि
(१) अज्ञानरूपतमस्तिमिरवृन्द-विनाशकं, बद्धस्पृष्टनिधत्त ज्ञानावरणीय-निकाचितरूपतिमिरज्ञानावरणवृन्दविनाशकं,
(२) तथा सुरगणनरेन्द्रमहितं श्रुतं वन्दे (तथाहिआगममहिमानं कुर्वन्त्येव सुरादयः) (३) सीमाधरं-मर्यादाधरं श्रुतं वन्दे, (श्रुतस्य वा तथाह्यागमवन्त एव मर्यादां धारयन्ति)
(४) पुनः किं भूतं. प्रस्फोटितमोहजालं-प्रकृष्टतया स्फोटित-मिथ्यात्वादिमोहजालं श्रुतं वन्दे, तथाचाऽस्मिन् सति (श्रुतज्ञाने सति) विवेकिनो कोहजालं विलयमुपयाति.
इत्थं श्रुतमभिवन्द्याधुना तस्यैव-श्रुतस्यैव गुणानामुपदर्शनद्वाराऽप्रमाद (प्रमादाभाव) विषयतां प्रतिपादयन्नाह
(१) जाइजरेत्यादि, जातिजरामरणशोकप्रणाशनस्य जन्म वयो ( यौवन ) हानिरूपजरा प्राणनाशशोक-मानसिकविशिष्टदुःख-प्रणाशन-अपनायकस्य,
तथा च श्रुतधर्मोक्तानुष्ठानाज्जात्यादयः प्रणश्यन्ति एव, अनेन विशेषणरूपेण वाक्येन चास्य-श्रुतधर्मस्यानर्थप्रतिघातित्वमाह
(२) कल्याणपुष्कलविशाल-सुखावहस्य (श्रुतधर्मस्य) आरोग्यकारणरूपकल्याणसम्पूर्णविस्तीर्ण-सुखप्रापकस्य (श्रुतधर्मस्य ) तथा च श्रतधर्मोक्तानुष्ठानादुक्तलक्षणमपवर्गसुखमवाप्यत विशेषणवाक्येनाऽस्य श्रुतधर्मस्य विशिष्टार्थसाधकमाह, (३) क:प्राणी देवदानवनरेन्द्रगणाचितस्य श्रुतधर्मस्य सारं-सामर्थ्य, उपलभ्य-दृष्टवा विज्ञाय, कुर्यात्-प्रमादं सेवेत ? सचेतसः-प्रेक्षावतश्चारित्रधर्मे प्रमादः कर्तुं न युक्तः इति हृदयं, ।
__ वादी आह-सुरगणनरेन्द्रमहितस्येत्युक्तं पुनर्देवदानवनरेन्द्रगणार्चितस्येति किमर्थम् ! उच्यते, प्रस्तुतभावाऽन्वयफलतन्निगमनत्वाददोषः, तथाहि-सुरगणनरेन्द्रसहितस्य-पूजितस्य,