________________
ललितविस्तरासंस्कृतटीका
१२३ सम्भवोऽस्ति, एतद्वचनपिशाचादि-वक्तु।शका 'एष पिशाचादि वक्ता भविष्यति वा न वा ?' एतादृशी शङ्काऽवश्य कार्या ! एतादृशः कश्चित् हेतुर्नास्ति यतः सा शक्का दूरे भवेत् ?
___ यदि-अतीन्द्रियार्थदर्शी-पिशाचादिरूपातीन्द्रियार्थ-द्रष्टा पुरुषो मन्येत तदा शङ्का दूरे गच्छेत् ! यतः, तेन पुरुषेण 'इदं वचनं' पिशाचादिजन्यमस्ति वाऽऽकस्मिकं (स्वतः) एवंविध-एक निश्चयस्य सद्भावोऽस्ति, यदि अतीन्द्रियार्थदर्शिनं पुरुषं न मन्येत तदाऽदृश्यवक्तृविषयकशङ्कानिवृत्ति न भवितुं शक्येत, किश्चातीन्द्रियार्थदर्शी, प्रकृतशक्कानिवर्तकत्वेन मान्यः, तत्र का हानिः । एतस्याः शङ्कायाः प्रत्युत्तरे कथनीयमेतावदेव, अतीन्द्रियार्थदर्शित्वेन मत्वा पुनरपौरुषेयवचनकल्पना व्यर्था भवति, यतः, अतीन्द्रियार्थदर्शिपुरुषस्याऽमान्यतायामपौरुषेयवचनस्य कल्पनायाः सफलताऽस्ति,
यथोक्तं-"अतीन्द्रियार्थपदार्थानां साक्षाद् द्रष्टा-अतीन्द्रियार्थदर्शी कश्चिन्नास्त्येवार्थान्नित्यवचन-वेदवाक्येन यः पश्यति, स द्रष्टाऽस्ति" एवं च यदि, अदृश्यपिशाचादिवक्तृविषयकशकां निरसितुं, अतीन्द्रियार्थदर्शिपुरुषकल्पनायां पुनः, अपौरुषेयवचनकल्पना व्यर्था, स्वदृष्टयाऽतीन्द्रियार्थ दर्शित्वाऽमान्यतायां साथिका तथापि यदि अतीन्द्रियार्थदर्शिपुरुषत्वाऽमान्यतायां च पूर्वकथितादृश्यपिशाचादिवक्तृविषयकशङ्काया नैयत्येन, अपौरुषेयवचनवादोऽकिञ्चित्करोऽस्त्येव. जैनमतस्योपरि-अपौरुषेयवचनाक्षेपः____ एतत् पूर्वोक्तं स्याद्, (भवतु) भवतामपि (जैनानामपि) शास्त्रवचनस्य तत्त्ववशात्, 'अपौरुषेय' मेव वचनं, कथमिति चेदिदं शास्त्रवचनं साक्षिकं 'तप्पूब्विया अरहया' अर्हताअर्हत्त्ववार्हत्समुदायः, वचनपूर्वक एव भवति, सर्वे, ऋषभाद्याः सर्वज्ञा आगमवचनमालम्ब्य भवन्ति, अतोऽनादितो जायमानानामर्हतामालम्वनरूपं समागच्छत् , एतदागमवचनं, अनादि-अपौरुषेयंस्थितम्,
प्रश्न:-अर्हतामनादित्वेऽपि, अर्हतां प्रवाहोऽनादितोऽस्ति, तथोत्तरोत्तरं जायमानानामहतो, पूर्व पूर्व सञ्जातानामर्हतां वचनप्राप्तिरस्त्यत एवं कथयितुं शक्यते, अत्र वचनं पूर्वीयस्याईतोऽस्ति, अर्थात् पौरुषेयमेव, अपौरुषेयं कथं ?
समाधानअत्रार्हतामनादित्वं, एवं वचनमनादि, अनादि, अर्थानित्यमपौरुषेयं, पौरुषेयं कुत्र गतं ! आद्यस्यैकस्याऽर्हतो वचनपूर्वकत्वं नास्ति, एतेनाद्येनोच्चरितवचनादनु, अर्हन्तो भगवन्त आगता, एवं वचनं पौरुषेयं वाच्यं स्यात्, परंतु एवं कथनं स्वशास्त्रं बाधित स्यात्, 'तदपि'-अवचनपूर्वकत्वं 'तन्त्रविरोधि' 'सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्ग' इत्यागमविरोधि, कुत इत्याह 'न्यायतः' सदकारणवन्नित्यमिति नित्यलक्षणन्यायाद्,