________________
ललितविस्तरासंस्कृत टीका
प्राक् " करोमि " करिष्यामि इति क्रियाभिमुख्यमुक्तं, साम्प्रतं त्वासन्नतरत्वातक्रियाकालनिष्ठाकालयोः कथञ्चिदभेदात्तिष्ठाम्येवाहं, अनेनाभ्युपगमपूर्वं श्रद्धादिसमन्वितं च सदनुष्ठानमिति दर्शयति ।
४१
आह— श्रद्धादिविकलस्यैवमभिधानं मृषावादः, को वा किमाहेति, सत्यम्, इत्थमेवैतदिति तन्त्रज्ञाः किन्तु न श्रद्धादिविकलः प्रेक्षावानेवमभिधत्ते तस्यालोचितकारित्वात्,
मन्दतीत्रादिभेदाश्चैते, तथा ssदरादिलिङ्गा इति नातद्वत आदरादीति, अतस्तदादरादिभावेऽनाभोगवतोऽप्येत इति ।
इक्षुरसगुडखण्डशर्करोपमाश्चित्तधर्म्मा इत्यन्यैरप्यभिधानात् इक्षुकल्पं च तदादरादीति भवत्यतः क्रमेणोपायवतः शर्करादिप्रतिमं श्रद्धादीति,
कषायादिकटुकत्वनिरोधत: शममाधुर्यापादनसाम्येन चेतस एवमुपन्यास इति एतदनुष्ठानमेव चैवमिहोपायः तथा तथा सद्भावशोधनेनेति परिभावनीयं उक्तं च
पं०..." प्रतिपत्तिमिति " प्रतिपत्तिः - कायोत्सर्गारिम्भरूपा तां " क्रियाकालनिष्ठाका लयोः कथचिदभेदादिति " कथञ्चित्-निश्चयनयवृत्त्या स हि क्रियमाणं क्रियाकालप्राप्तं कृतमेवनिष्ठितमेव मन्यते, अन्यथा क्रियोपरमकाले क्रियानारम्भकाल इवानिष्ठितप्रसङ्गात्, उभयत्र क्रियाभावाविशेषात्, कृतं पुनः क्रियमाणमुपरतक्रियं वा स्यादिति, यदुक्तं - " तेणेह कज्जमाणं, नियमेण कयं कयं च भयणिज्जं । किश्चिदिह कज्जमाणं, उवरयकिरिंय व होज्जाहि ॥ १॥” व्यवहारनयस्त्वन्यत् क्रियमाणमन्यच्च कृतमिति मन्यते, यदाह - " नारम्भे च्चिय दीसइ, न सिवादद्धाऍ दीसह तयन्ते । जम्हा घडाइकज्जं, न कज्जमाणं कयं तम्हा ! ॥ १ ॥ " ततोऽत्र निश्चयनयवृत्त्या व्युत्त्रष्टुमारब्धका यस्तद्देशापेक्षया व्युत्सृष्ट एव द्रष्टव्य इति, ननु कदाचि - च्छ्रद्धादिविकलः प्रेक्षावानप्येवमभिदधद्दश्यते इत्याशङ्कयाह
६