________________
ललितविस्तरासटीका तथाहि परापेक्षो यो न प्रवर्तते वा निवर्त्तते परंतु स्वेच्छानुसारेण यः प्रवर्त्तते वा निवर्त्तते स वस्तुतः स्वातंत्र्यलक्षणलक्षितः कर्ताऽस्ति, यः परमपेक्ष्य पारतव्येण प्रवर्तते वा निवर्तते स स्वतंत्रकर्ता नार्थादकर्ता कथ्यते.
तथाऽन्यस्याऽन्यत्र लयोऽप्यनुपपन्नः तथा च मुक्तपरमपुरुषयोर्लयलक्षणभूतमेकीभवनअभेदेन भवनं न, कथमिति चेत् कथ्यते, अन्यतरस्य-मुक्तस्य वा परमपुरुषस्याभावप्रसङ्गः मुक्तस्तिष्ठेन्न तिप्ठेद्वा परमपुरुषस्तिप्ठेन्न तिष्ठेत् , द्वयो-मुक्तपरपुरुषयो मध्ये, एको मुक्तो वा परमपुरुषः कस्तिष्ठेत् को न तिष्ठेदिति निर्णयो न, कथमिति चेत् कथ्यते-अन्यतरस्येतरस्वरूपपरिणतो तत्र लीनत्वोपपत्तिर्भवति परमपुरुषे. मुक्तानां परमपुरुषस्वरूपपरिणतिरूपलयत्वोपपात्तज़ैया, अतो मुक्तानामभावः, मुक्तेषु परम पुरुषस्य मुक्तस्वरूपपरिणतिरूपलयत्वोपपत्त्या, परमपुरुषस्याभावः,
यदि लयेऽस्मिन् मुक्तस्य वा परमपुरुषस्य सत्तायाः, अभावस्वीकारो न स्यात्तदा दूषणान्तरमाह तथाहि=परमपुरुषलक्षणसत्तायाः, मुक्तलक्षणे सत्तान्तरे प्रविष्टे सति अर्थात् प्रवेशे सति (एकीभवने प्रवेशे सति) न, अनुपचयः किन्तूपचय एव वृद्धिरूपः स्कन्धान्तरे प्रविष्टस्कन्धवत् , घृतादिपलस्य पलान्तरप्रवेश इव, अर्थाद् वृद्धिरूपोपचये सत्येव, सत्तायाः ‘सैव' प्राक्तनी पुरुषस्य मुक्तस्य वा 'सा' सत्तेति एवं च वृद्धेः प्राक् सत्ता परमपुरुषसत्ता, वृद्धिरहितत्वेन विजातीया, यदा 'वृद्धिसहिता स्यात्तदा परमपुरुषसत्ता वृद्धिमत्त्वेन सैवं सैवं न कथयितं शक्यते अर्थाद् विलक्षणसत्ता (सत्तार) भवतीत्यापत्तिः प्रसज्येतेतीदृशी नीतिःन्यायमुद्रास्ति. प्रकृतसिद्धिः-एवं-द्वयोरेकीभावे लयेऽन्यतराभावप्रसङ्गेन, उपचये तदन्तरापत्त्या वा अन्यस्य-सामान्येन मुक्तादेः 'अन्यत्र'-पुरुषाकाशादौ लयो नैव मुक्तिनँव एष लयरूपमुक्ति निषेधो, मोहविषप्रसरकटकबन्धः ( मन्त्रितरक्षासूत्रबन्धः ) एवं निषेधो हि कटकबन्ध इव द्वय विषं, तथा न मोहः, भावविषरूपो प्रसरतीति. तदेवं निमित्तकर्त्तत्वपरभावनिवृत्तिभ्यां तत्त्वतो मुक्तादिसिद्धिः तदेवं न्यायमुद्रया एतत् फलितं भवति यत् , उपादानकर्त्तत्वमान्यतायां रागाद्यापत्तिसम्भवेन, मुख्य-स्वतंत्रकर्तत्वाभावोऽर्थात् , भव्यानां परिशुद्धप्रणिधानादिप्रवृत्त्यालम्बनतया=यत्र भावना-चित्ताशयो विशुद्धोऽस्ति, यत्र मनस्तदर्थेऽर्पितमस्ति, यथा तत्र क्रिया यथाशक्ति विद्यते, एतादृशस्वरूपावच्छिन्न-परिशुद्धप्रणिधानादिप्रवृत्तिक्रियायां भव्यानां, अर्हन्तं भगवन्तं, आलम्बनभूतत्वेन, अर्हद्भगवत्सु निमित्तकर्तत्वं घटत एव, लयायोगलक्षणं, परभावनिवृत्तिश्च ( अथवा द्रव्यकर्मभावकर्मरूपपरभावतो निवृत्तिः ) घटते एवं च निमित्तकर्त्तत्वेन (अन्येषां संसारबन्धनतो मोचकेभ्यः) परभावतो निवृत्तितः 'मुक्तेभ्यः' ) परभावनिवृत्तस्व
218