________________
ललितविस्तरा - सटीका
भगवद् भिर्योग्यताऽनुसारेण यथाभव्य धर्मस्य दानं दत्तमस्ति, अर्थाद् यद्वस्तुनो यः स्वामी भवेत्, तेनैव तस्य दानं जगति सुप्रसिद्ध वर्त्तते, तत्त्वतः धर्मस्य यथोचितदानेनैव 'धर्मः स्ववशो' वर्त्तते इति सिद्ध अर्थात् प्रकृतधर्मस्य वशोकरणभावरूपसाध्यसिद्धौ 'धर्मस्य यथोचितदानं' एष तृतीयो हेतु:,
,
( ४ ) दत्तश्च यथाभव्य, तथा तत्रापेक्षाऽभावेन नामीषां दाने वचनाऽपेक्षा = यथा 'विधिसमासादन - निरतिचारतया पालन - यथोचितदानानि त्रीणि धर्मस्य स्ववशीकरणे कारणानि सन्ति, तथा 'धर्मस्य स्वात्मसात्करणे' चतुर्थं कारणं, धर्मस्य दानविषये भगवतोऽन्येषां वचनस्य, अपेक्षा (आज्ञा ) या अभावो वर्त्तते, तथाहि = अन्ये मुनयो धर्मदाने गुरुप्रभृतीनामन्येषां वचनरूपाज्ञाया अपेक्षां रक्षन्ति, तथा भगवन्तो यथाभव्य योग्यताऽनुसारेण धर्मस्य दानेऽन्येषां वचनरूपामाज्ञां नाऽपेक्षन्ते तथा च धर्मस्य दानेऽन्येषां वचनरूपाज्ञाऽपेक्षाया अभावेन भगवन्तो धर्मदाने स्वतन्त्राः सन्ति स्वतन्त्रतया धर्मदानेनैव 'धर्म स्ववशः' इति सिद्धिर्भवति, अर्थात् प्रकृतधर्मस्ववशीकरणभावरूपसाध्यसिद्धौ ' यथोचितधर्मदानविषये वचनरूपाज्ञाऽपेक्षाऽभावरूप स्वातन्त्र्यमस्ति '
इति चतुर्थी हेतुर्ज्ञेयः,
'धर्मोत्तमाऽवाप्ति' रूप द्वितीयमूल हेतो विवेचनम् -
यथा भगवन्तो धर्मवशोकारका, अतो धर्मनायका एवं धर्मोत्तमस्य ( उत्तमधर्मस्य ) अवाप्तिमन्तो 'धर्मनायका:' तथाहि भगवन्तो ( पक्ष : ) धर्मोत्तमावाप्तिमन्तः सन्ति ( उत्तमधर्मावाप्तिरत्र साध्यं) यतः
प्रतिहेतुचतुष्टयपूर्वकं
-
( १ ) प्रधानक्षायिकधर्माऽवाप्त्या तीर्थंकरत्वात प्रधानोऽयं भगवतां, अर्थात् तोर्थंकरत्वहेतुनाऽस्य क्षायिकधर्मस्य प्राधान्य - ( स्वातन्त्र्य) नान्येषां अन्ये केवलिनः तीथं - कराणां वचनमालम्ब्य क्षायिकधर्मप्राप्तिमन्तो भवन्ति, तीर्थं करत्वहेतुना, तीर्थ करीयक्षायिकधर्मः, अन्येषां क्षायिकधर्मप्राप्ती परमालम्बनभूतोऽस्ति आकाशवत् यथाssकाशं सर्वेषामाधारो भवति, आकाशस्य कोऽप्याश्रयो न, तथाऽत्र ज्ञेयम् ।
(२) यथा भगवतां धर्मोत्तमरूपसाध्यं प्रति 'प्रधानक्षायिकधर्माऽवाप्तिः, हेतु - रस्ति, तथा परार्थसम्पादनेन सत्त्वार्थकरणशीलतया, परार्थसम्पादन रूपो हेतुरस्ति, तथाहि = भगवन्तोऽर्हन्त: परोपकारव्यसनिनः, अतः सत्त्वमात्रहितकरणप्रकृतयोऽतः परार्थं
170
,