________________
ललितविस्तरा-सटीका
वधानता) नामकदोषस्य सत्त्वात्, एकान्तेन' पापस्य भवनं-बन्धनं इति तत्कर्तु:-विपरीतदर्शनप्ररूपणादिकत्तुं रनिष्टप्राप्तिहेतुत्वमैकान्तिकमेवेति. अनागमं पापहेतोरपि पापभावात्, इतरेतरापेक्षः कर्तृ कर्मप्रकारः, नाचेतनाहितयोग उपचरितः,
पं०...'अनागमम्' आगमादेशमन्तरेण 'पापहेतोरपि' अयथावस्थितदर्शनादेरकुशलकर्मकारणात् पभावाद' अकशलकर्मभावात पापहेतुकृतात्पुनः परेष्वपायात्पापभाव एवेत्यपिशब्दार्थः, भयमभिप्रायः-आगमादेशेन क्वचिदपवादे जीववधादिषु पापहेतुष्वपि प्रवृत्तस्य न पापभावः स्याद्, अन्यथा तु प्रवृत्ती परेषु प्रत्यपायाभावेऽपि स्वप्रमाददोषभावानियमतः पापभाव इति तत्त्कर्तुं रनिष्टाप्तिहेतुत्वमेकान्तिक मिति ॥ ननु चेदमपि कथं निश्चितं ? यदुत-अनागमं पापहेतोरप्यवश्यं पापभाव इत्याशङक्याह-'इतरेतरापेक्षः' परस्पराश्रितः 'कत्तुं कर्मप्रकार: कारकभेदलक्षणः, कर्ता कर्मापेक्ष्य व्यापारवान कर्म च कर्तारमिति भावः, यथा प्रकाश्यं घटादिकमपेक्ष्य प्रकाशक: प्रदीगादिः, तस्मिंश्च प्रकाशके सति प्रकाश्यमिति, तथा विपर्यस्तबोधादिपापहेतुमान पापकर्ता पुमानवश्यं तथाविधकार्यरूपपापभाव एव स्यात्, पापभावोऽपि तस्मिन् पापकर्तरीत्यतः स्थितमेतद् यदुत-प्रकारान्तरचेष्टनस्यानिष्टत्वसिद्धिः, हितयोगविपरीतत्वात्, विषयं प्रत्यहितयोगत्वं चेति । नन्वेवं कथमचेतनेष्वहितयोगः, तत्साध्यस्य क्रियाकलस्यापायस्य तेषु कदाचिदप्यभावात्, यदि परमपचरितः, तस्य चोपचरितत्वे हितयोगोऽपि तेषु तादश एव प्रसजति, नच स्तवे तादृशस्य प्रयोगः, सद्भूतार्थविषयत्वात् स्तवस्यं, ततः कथं सर्वलोकहिता भगवन्त इत्याशङ्कयाह-"न" नैव "अचेतनाहितयोगः" अचेतनेषु-धर्मास्तिकायादिष्वहितयोगः-अपायहेतुप्पारो मिथ्यादर्शनादिरुपचरितः-अध्यारोपितोऽग्निर्माणवक इत्यादाविवाग्नित्वम्, अन्न हेतुमाह
टी०...ननु आगमादेशं विना विपरीतदर्शनादिरूपाशुभकारणादपीति-नियमतस्तस्कर्तुः पापकर्मबन्ध इति निश्चये किं प्रमाणभूतं कारणमिति चेदुच्यते, कारकविशेषरूपकर्तृकर्मनामकप्रकारः, परस्परापेक्षः सन् परस्पराश्रितोऽस्ति, (नाम्नः क्रियापदेन सह साक्षात्सम्बन्धः कारकम्-क्रियया सहान्वयित्वं कारकस्य लक्षणं, षष्ठी विभक्ति विमुच्य सर्वा विभक्तयः क्रियापदेन सह साक्षात्सम्बन्धं कुर्वन्ति ततस्ताः कारकविभक्तयः कथ्यन्ते, कारक क्रियाया विशेषणमस्ति, षोढा कारकविभक्तयः कर्तृ कर्मकरणसम्प्रदानापादानाधिकरणरूपाः सन्ति.) कर्ता, कर्मापेक्ष्य व्यापारवान् भवति, कर्म च कर्तारमपेक्ष्य व्यापार-क्रियाविषयो भवति, यथा प्रकाश्य-प्रकाशक्रियाविषयं घटादिकमपेक्ष्य, प्रदीपादि-प्रकाशक:-प्रकाशक्रियाकर्ता भवति, प्रकाशके-प्रकाशकर्तरि, प्रदीपादी सत्येव, प्रकाश्यं प्रकाशविषयरूपं घटादिकं कर्म भवतीति, परस्पराश्रयसम्बन्धेन कर्तृकर्मप्रकारआश्रितोऽस्ति. कर्ता कर्मापेक्षतेऽर्थात् किं करोत्येष इति प्रश्ने एष कर्ता, इदं करोति. कर्ता निराश्रयो न भवति. क्रिमाश्रित्य करोतीति प्रश्ने, इदमाश्रित्य एष करोति.
121