________________
ललितविस्तरा-सटीका
विशिष्टतायाः सत्त्वेकरून जीवे भेदकरूपान्तराभावे चेतनादिविशिष्टरूपकल्पनायामजीवेऽपि तस्कल्पनाप्राप्तेरिति, 'एवम्' एकस्वभावे वस्तुन्यनेकदोषोपनिपातेन विचिवरूपवस्तुसिदी न 'विरोधो' विजातीयोपमाप्पितधर्मपरस्परनिराकरणलक्षणो, विजातीयोपमायोगेऽपि कि सर्वथा ? नेत्याह 'अभिन्ननिमित्तम्वादृते' अभिन्न निमित्तत्वं विना,
नेवोपमेयवस्तुगते धर्मे निमित्ते, उपमा सदृशी विसदशीच प्रयुज्यते, ततः स्यादपि विरोधो, न तु विसदृशधर्म- निमितासूपमास्वनेकास्वपि, पुरुषवरपुण्डरीकेत्यनेन सदृशी विसदृशी चोपमा सिद्धति । ... टी...'विशेषात्मकं वस्तु' इति बौद्धमतं शेयम्, विशिष्टं-स्वपरपक्षव्यावृत्तं, . (१) बेन परस्य व्यावृत्ति दः क्रियते सोऽपोहः कथ्यते, बौखस्तु, अत्यन्त्रव्यावृत्तपरस्परविलक्षणस्वलक्षणेष, अनुवृत्तिप्रत्ययकारकं सामान्यं नाऽभ्युपैति, बौद्धमतमिदमस्ति, यद् यदाऽस्माकं किमपि शब्दज्ञानं भवति तदा तस्य शब्दस्य पदार्थस्यास्तित्वेन मास्तित्वेन द्विरूपेण भवति यथा यदाअस्माकं गोशब्दस्य ज्ञानं भवति तदा यौगपद्येन गोरस्तित्वेन, गोभिन्नान्यसर्वपदार्थानां नास्तित्वेन रूपेण ज्ञानं भवत्यतो बौद्धार्ना मतेऽतव्यावृत्तिरपोह एव शब्दार्थः । .. (२) अतद्व्यावृत्तः-अपोहः । यथा विज्ञानबादि-बौद्धमते नीलत्वादिधर्मः, अनीलव्यावृत्तिरूपः (दि. १)तन्मतेऽयं धर्मोपारमार्थिक एवेति सर्वस्याऽपि विज्ञानरूपत्वं क्षणिकत्वं चेति च ज्ञेयम्। सत्त्वादिधर्मः, असव्यावृत्तिरूपः । बौद्धमतमीदृशमस्ति यत्-विशेषं त्यक्त्वाऽतिरिक्तं सामान्यं किमपि वस्तु नास्ति, सर्वक्षणिकपदार्थानां झोन तत्पदार्थगतासाधारणरूपेण भवति, तत: सर्वे पदार्थाः स्वलक्षणाः, अर्थात् पदार्थानां सामान्यरूपेण ज्ञानं न भवति, यदा पंचागुली-ज्ञानिसमये पंचाङगुलीरूपं विशेषं त्यक्त्वा, अंगुलिस्वरूपाऽतिरिक्ता काऽपि जाति न ज्ञायते, एवं गोज्ञानसमये गोनिष्ठ वर्णाकारादिरूपं विशेषज्ञानं परित्यज्य गोत्वरूपं भिन्नं सामान्यज्ञानं न भवत्यतो निशेषातिरिक्तं सामान्यं भिन्नं न मन्तव्यं यतो विशेषेष्वेव वस्तुनो लक्षणमर्थक्रियाकारित्वं सम्यक्तया घटते. स्वतः सतः, परपल-असत्पशव्यावृत्तं-अतद्व्यावृत्ति-असद्व्यावृत्तिरूपमपोहरूपं सत्त्वमपि बौद्धाभिमतं नैव, अमूर्तत्वं चेतनत्वादिरूपं भवति. यथाऽविशिष्टं सत्त्वं पूर्वोक्तयुक्तरपूर्तत्वादि न भवत्येव तवेदमपि विशिष्टं सत्यं यं कथमिति चेत्. कथ्यते-विशेषणं (अन्न व्युत्पत्तिः-विशिष्यते भिद्यतेऽनेन (ल्युट) इति विशेषणं-भेदकं ब्यावर्तकम्) भेदकं, भेद-व्यावृत्तिकारकं विनाऽतिप्रसङग:अतिव्याप्ति भवति लथाहि = विशिष्टतैव सत्त्वं, सत्त्वमेव विशिष्टता-विशेषः अर्थाद् विशेषाऽभिन्नसत्त्यैकरूपे सति व्यक्ति-जीवे शुद्धे भेदक-विशेषणरूपाऽन्तराऽभावे-अन्यभेदकमात्राभावे सति चेतनत्वादि-विशिष्टरूपा कल्पना-मान्यता, यथा वर्तत तथाऽजीवेऽपि भेदकान्तराभाव-प्रयुक्ता चेतनत्वादि-विशिष्टरूपा कल्पना-मान्यता आपतिष्यति, अर्थादेवमेष महानतिप्रसङमः दुनिवारोपि महाऽनिष्टरूपोऽस्ति, अर्थाद् यथा चेतनादिविशिष्टो जीवोऽस्ति, तथा भेदकान्तराभावप्रयुक्तः चेतना-विशिष्टोऽजीवोऽपि, स्यादित्यापत्तिनदी महादुस्तरा भवेदिति. तथा च सर्वथा एकान्तेन वस्तुनः
100