________________
बलितविस्तरा-सटीका
टी...विशिष्टफलं (तीर्थकरत्वविशिष्टका) प्रति परम्परा-व्यवहितकारणं वरकोधिरस्ति, इतरत्-सामान्यफल (तीर्थकरत्वरूपफलमित्रान्तकृत्केबस्यादिविलिभावरूपफलं) प्रति परम्परा-व्यवहितकारणं (तीर्थकरत्वकलाजनको) बोधिरस्ति, परम्परारूपहनुदयस्य परस्परदरूपविशेषात्, तीर्यकरातीकरनिष्ठबोधिभेदो न्याय्य एवेति सिद्धम् । यदि विशिष्टफलस्य सामान्यफलस्य च परम्पराहेत्वोः परस्परभेदो न मन्येत, तक्षान्तकृल्केवलिवत् तीर्थकरे तीर्थकरमावाभावापत्तिः, अर्थात् परम्पराहेत्वोरभेदकल्पनायां, तीर्थकरत्वरूपविशिष्टफले करबोधिजन्यतीर्थकरत्वरूपविशिष्टतायाश्चान्तकृत्केवल्याविरूपसामान्यफलेऽतीर्थकरत्वरूपसामान्यस्याभावापत्तिरापतेत्, इदमन हृदयम्-वरबोधितो विशिष्टफलं कथं ? सामान्यफलं कथं न ? च सामान्यबोधितः सामान्यफलं कथं ? विशिष्टफलं कथं न ? इति प्रश्न-चतुष्टयस्य समाधानं तदा भवेत् यदा बोधौ भेदप्रतिपत्ति भवेन्नान्यथेति, फलभेदेन कारणभूतबोधौ नितरां भेदः प्रतिपत्तव्य एवेति.. किञ्च भगवनिष्ठवरबोधेरेतादृशः स्वभावोऽस्ति यत्परम्परातः-भवान्तरव्यवधानतस्तीर्थंकरपदवीलाभोऽवश्यं भाव्येव. व्यतिरेकापेक्षयाऽह-परन्तु, अन्तकृत्केवल्यादिनिष्ठ (मरुदेवादिकेवलिनिष्ठ) बोधिलाभवत्, अतीर्थकरस्वभावो बोधिलाभो नास्ति. यदि विशिष्टेतरफलयोः परम्पराहेत्वोः परस्परभेदो न कश्चित्तदा यथाऽन्तकृत-केवाल-वृत्तिबोधिरूपपरम्पराकारणतः तीर्थकरत्वसिद्धि भवति, तथा वरबोधिलाभतस्तीचं करत्वभागाभागापति भंवेदेवं कदाचिन भवत्वत एव तीर्थकरवृत्तिवरबोधिभिन्नोऽतीर्थकरवृत्तिबोधिभिन्न एवातएव विशिष्टफलसामान्यफलोपपत्तिर्यथा भवेदिति.......... .. .. तत्तत्कल्याणस्य-तीर्थकरत्वरूपफ़लकारशवरबोधिरूपविशिष्टकल्याणस्याथवा वरबोधिप्रयोज्य-तीर्थकरत्वरूपकल्याणस्याक्षेपकः = आकर्षको योऽनादिकामीन (सहज) तथाभव्यतारूप-पारिणामिक भावविशेषोऽस्ति, तं भजन्ते इत्येवं शीला अर्थात् विशिष्टकल्याणप्रयोजक-सहजतथाभन्यता-भावभाजोऽर्हन्तो भगवन्तो भवन्ति, अत एव तन स्वयंसम्बुद्धस्वसिद्धिरिति । ..... एवमेव शक्रस्तवस्य पञ्चमं पदं पूर्ण भवति-द्वित्तीयसम्पदश्च तृतीयं पर पूर्ण भवति, तेन सह द्वितीयसम्पदश्च व्याख्यानं समाप्तं भवति.-." द्वितीयसम्पदः समुदितत्वेन सान्वर्थसमन्वयः-.. एवमादिकर्तृणां तीर्थकरत्वेनान्यासाधारणस्वयंसम्बोधेनेति स्तोतव्यसम्पद एव प्रधाना साधारणासाधारणरूपा हेतुसम्पदिति ।
____टी....एक्मादिकर्तृणां (मोक्षावस्थातः प्राक् संसारावस्थायां जन्मादिप्रपञ्चकरणशीलानां) मध्ये तीर्थकरत्वेन (तीर्थंकरव्यक्तिभिन्नसकलव्यक्तिषु, अविद्यमानत्वेनान्यासाधारणेनतीर्थकरव्यक्तिभिन्नव्यक्तिनिष्ठवोधिभिन्नतीर्थंकरपदप्रापकविशिष्टवरबोधितः) अन्यासाधारणपरोपदेशनिरपेक्षयथार्थ-हेयोपादेयोपेक्षणीयसकलवस्तुविषयकतत्त्वज्ञानरूपस्वयंसंबोधेन विशिष्टा