________________
द्वितीयो भाग / सूत्र - ११, द्वितीय किरणे
४९ एवोपयोगरूपत्वात्, अतिरिक्तत्वे वा तस्यास्सन्निकर्षेऽकिञ्चित्करायास्सहकारित्वासम्भवात्, किञ्चित्करत्वे च तस्या एव कारणत्वमस्तु किमन्तर्गडुना सन्निकर्षेण । न च तदानीं मनस इन्द्रियेण सन्निकर्षाभावान्न प्रसङ्ग इति वाच्यं मनसोऽणुत्वासिद्धेः, द्रव्यमनसोऽशेषात्मप्रदेशव्यापिन: पौद्गलिकस्याग्रे व्यवस्थापयिष्यमाणत्वेनेन्द्रियैस्संयोगसिद्धेरिति । तस्मादुपयोग एव प्रत्यक्षं प्रति करणमिति भावः । न च ज्ञानस्यैव करणत्वे फलत्वं कस्येति वाच्यम्, स्वार्थसंवित्तेः फलत्वात्, न च स्वार्थव्यवसितिः फलं प्रमाणञ्चेति कथं ? विरुद्धत्वान्नहि स्वमेव फलं स्वमेव प्रमाणं भवितुमर्हतीति वाच्यम्, प्रमाणफलयोः कथञ्चिद्भेदाभेदादुभयोपपत्तेः । एवमेव 'ततोऽर्थग्रहणाकारा शक्तिर्ज्ञानमिहात्मनः । करणत्वे विनिर्दिष्टा न विरुद्धा कथञ्चने' ति लब्धीन्द्रियस्य करणत्ववादिनां मतमपि न समीचीनम्, तया फले जनयितव्ये उपयोगेन व्यवधानात्साधकतमत्वासिद्धेः । तस्या ज्ञानशक्ते : प्रत्यक्षत्वे शक्तीनां परोक्षत्वसाधनमार्हतानां विरुद्धं स्यात् । परोक्षत्वे च मीमांसकमतप्रवेशापत्तेः, तैः करणज्ञानस्य परोक्षतायाः फलज्ञानस्य च प्रत्यक्षताया अभ्युपगमात् । अस्माभिश्चोभयोः करणफलयोः प्रत्यक्षताभ्युपगमात्तथा च न लब्धीन्द्रियं करणं प्रमाणं वा, उपचारेण तु सन्निकर्षादिवत्सापि प्रमाणं स्यादिति ॥
ननु शब्दाद्यर्थग्रहणे चतुर्विधानामेतेषामिन्द्रियाणां मिलित्वा हेतुत्वं किंवा द्वित्र्यादीनामित्याशङ्कायामाह समुदितानीति, निर्वृत्त्यादीनामेकतराभावेऽपि जीवस्य शब्दादिविषयस्वरूपावबोधो न कदापि भवति विकलकरणत्वादतो मिलितानां हेतुत्वं, अत एव च मिलितानामिन्द्रियव्यपदेश इत्याहेन्द्रियेति । तथा च यस्य यावन्ति द्रव्यभावरूपाणीन्द्रियाणि तस्य तावत्सु समुदितेष्विन्द्रियव्यपदेशो न न्यूनेष्विति भावः । सोऽयमुपयोग एकस्यैकोपयोगकालावच्छेदेनैक एव, नान्यः, अर्थान्तरोपयोगकालेपूर्वोपयोगबलस्य विनाशात्, तथानुभवात्, नहि चक्षुर्दर्शनकाले श्रोत्रज्ञानोत्पत्तिरनुभूयते, न चावृतत्वात्तदनुत्पत्तिरिति वाच्यम्, स्वसमयेऽप्यनुत्पत्तिप्रसङ्गात् । न चाणुना मनसा यदा यदिन्द्रियसंयोगस्तदा तज्ज्ञानमिति क्रमेणैव ज्ञानोत्पत्तिरिति वाच्यम्, सर्वाङ्गीणसुखोपलम्भाधुपपत्तये मनोवर्गणापुद्गलानां शरीरव्यापकत्वकल्पनात्, तस्माद्युगपदनेकप्रत्ययानुत्पत्तौ स्वभाव एव कारणं नान्यत्, एवं सन्निहितेऽपि सामान्यविशेषात्मके वस्तुनि विषये प्रधानीकृतसामान्य उपसर्जनीकृतविशेषः केवलदर्शनोपयोग एतद्विपरीतः केवलज्ञानोपयोगः । अत्र केवलज्ञानं स्वसमानाधिकरणं यत्केवलदर्शनं