________________
ग्रन्थकारपरम्परापरिचयः ॥
सदालिजुष्टः सुमनोऽतिरम्यः, फलग्रहिः शिष्यलतावितानः । पर्वाधिशाली सुरगच्छवत्सः, तपेति गच्छः स्म चकास्ति नित्यम् ॥ ३४ ॥ अनन्यसाधारणचिच्चरित्रः, शैथिल्यमुक्तश्चरणप्रवृत्तौ । यस्य द्वितीया वटगच्छसंज्ञा, बिभर्ति, केषां न स पूज्यभावम् ॥ ३५ ॥ स्फारस्फुरत्संवरवीचिराजि - मर्यादितो भव्यरमानिमित्तम् । अस्ताघमूलो मुनिरत्नपूर्णः, शश्वद्व्यभात्सागरवत्स गच्छः ॥ ३६ ॥ देवेन्द्रसूरिविजयादिमचन्द्रसूरी, शिष्योत्तमौ कुमतसन्तमसांशुमन्तौ । विद्याविशारदवरौ श्रमणौ समस्तां, तत्पट्टनाकवडवातनयौ मुनीन्द्रौ ॥ ३७ ॥ विद्यानन्दगणिर्विचक्षणमणिर्देवेन्द्रसूरी शितुः,
पूर्वोऽन्यो मुनिधर्मघोषगणपो ह्येतौ विनेयावुभौ । सेनान्यौ जिनशासनक्षितिपतेः पुण्याङ्गिबाहूपमौ, जातो तत्पदमौलिमणिभृत्- श्रीधर्मघोषः क्षमी ॥ ३८ ॥ समुद्राधिष्ठाता जलनिधितराङ्गावलिमिषात्, डुढौके रत्नादीननिमिषवरो यस्य सविधे । स्वपक्षान्यस्त्रीभिः प्रवचनवचोभञ्जनकृते, गले केशव्यूहः कुमतिभिरकारि स्वबलतः ॥ ३९ ॥ तदा विद्याद्रङ्गे विदितकपटो यो मुनिवरो, भृशं तस्तम्भैतास्तदनु सदयः सङ्घवचनात् । वधूनां निर्बन्धाल्लघु सममुचच्चातिशयभृत्, समग्रन्थीच्छ्रव्या जयवृषभसंज्ञादिकविताः ॥ ४० ॥ भिषझ्यते कर्मरुजापहारे, सम्राज्यते सूरिसमूहमध्ये । धर्मोपदेशे जलमुच्यते यः, ओजायते पण्डितमण्डलेषु ॥ ४१ ॥
कश्चिद्योगिशठोऽवसद्वरनरे द्रङ्गे विशालाभिधे, साधून्भापयते स्म सौवबलतो जैनान्समभ्यागतान् । भूम्यां संविहरन्हरन्कलितमः कुर्वञ्जनस्योद्धृति, श्रीसूरीश्वरधर्मघोषविबुधस्तत्राजगामैकदा ॥ ४२ ॥
७०९