________________
ग्रन्थकारपरम्परापरिचयः ॥
७०५
मुनि श्री भद्रंकरविजयजी विरचितो ग्रन्थप्रशस्तिरूपः
___(&ाख २१.पू.भा.मरसूरीश्वर म...)
. ग्रन्थकारपरम्परापरिचयः ॥ शक्रेश्रेणीमुकुटमाणभिः स्पृष्टपादारविन्दः, स्याद्वादीशश्चरमजिनपो वर्धमानः श्रियोढः । ज्ञानानन्त्यो यतिततिलतापूर्वबीजं विरागः, भूयाद्भूत्यै सुकृतिकृतिनां शासनाधीश्वरोऽसौ ॥ १॥ तत्पट्टाभ्रे हिमरुगिव यो भासते कान्तकान्तिः, विद्याम्भोधिः प्रथितगणभृत्पञ्चमः संयताक्षः । प्रातये॒यस्त्रिदिवपतिवत्सत्सुधर्माश्रितः सः, हर्षाय स्तात्सहृदयहृदां श्रीसुधर्मेशिता वै ॥ २ ॥ जम्बूः कम्बूज्ज्वलतरयशास्तत्सुपट्टाब्जपूषा, नव्योढाभिर्जितसुभगतास्वर्गरम्भोर्वशीभिः । जहे स्त्रीभिः सुदृढमनसो यस्य यूनो मनो नो, वात्याभिर्वो वितरतु यथा मेरुकूटं स सौख्यम् ॥ ३ ॥ तत्पट्टप्राक्शिखरिरवयः श्रीलजम्बूपदेशाद्, दीक्षां प्राप्ताः प्रभवविभवो येऽभवन्पान्तु ते वः । अर्हन्मूल् कुमततिमिरं सूर्यदीप्त्येव नष्टुं, तत्पट्टेशोऽवस्तु सुमनसो यस्य शय्यम्भवः सः ॥ ४ ॥ ततो यशोभद्रगुरुर्बभूव, तत्पट्टशुद्धाम्बरपुष्पदन्तौ । सम्भूतविद्वन्मणिभद्रबाहू, उभावभूतां कुमताब्जराहू ॥ ५ ॥