________________
तत्त्वन्यायविभाकरे
सूत्रादेर्विधेयं न पुनर्मानादिवशादात्मनो लाघवाद्याशङ्कया श्रुतगुरूणां श्रुतस्य वाऽपलापः कार्यः । व्यञ्जनार्थतदुभयभेदाः यथा श्रुतप्रवृत्तेन तत्फलमभीप्सता व्यञ्जनभेदोऽर्थभेदस्तदुभयभेदश्च न कार्यः, तत्र व्यञ्जनभेदो यथा - 'धम्मो मङ्गलमुकिट्ठे' इति वक्तव्ये 'पुण्णं कल्लाणमुक्कोस' मित्यादि, अर्थभेदस्तु यथा 'आवंती केयावंती लोगंसि विप्परामुसंति' इत्याचारसूत्रे यावन्तः केचन लोके अस्मिन् पाखण्डिलोके विपरामृशन्तीत्येवंविधार्थाभिधाने अवन्तिजनपदे या - रज्जुर्वान्ता पतिता लोकः परामृशति कूप इत्याह, तदुभयभेदस्तु द्वयोरपि याथात्म्योपमर्देन यथा 'धर्मो मङ्गलमुत्कृष्टः अहिंसापर्वतमस्तक इत्यादि, अत्र दोषश्च व्यञ्जनभेदेऽर्थभेदस्तद्भेदे क्रियाभेदस्तद्भेदे मोक्षाभावस्तदभावे च निरर्थिका दीक्षेति । एवञ्च ज्ञानाचारान् य: प्रतिसेवते स ज्ञानप्रतिसेवनाकुशीलो बोध्यः, एवं दर्शनं दर्शनाचारं वैपरीत्येनासेवते स दर्शनप्रतिसेवनाकुशीलः । दर्शनं सम्यक्त्वं तदाचारः निश्शङ्कितत्वादिरष्टविधः निश्शङ्कितनिष्कांक्षितनिर्विचिकित्साऽमूढदृष्टयुपबृंहणस्थिरीकरणवात्सल्यप्रभावनाभेदात् । शङ्कितं सन्देहस्तस्याभावो निःशङ्कितम्, कांक्षा अन्यान्यदर्शनग्रहस्तदभावो निष्कांक्षितं विचिकित्सा मतिविभ्रमः युक्त्याऽऽगमोपपन्नेऽप्यर्थे फलं प्रति संमोहः तदभावो निर्विचिकित्सम् । अमूढाऽविचला तपोविद्यातिशयादिकुतीर्थिकर्द्धिदर्शनेऽप्यमोहस्वभावा दृष्टिस्सम्यग्दर्शनमूढदृष्टिः, उपबृंहणं समानधार्मिकाणां क्षमणावैयावृत्त्यादिसद्गुणप्रशंसनेन तत्गुणवृद्धिकरणम्, स्थिरीकरणं धर्माद्विषीदतां तत्रैव चारुवचनचातुर्यादवस्थापनम्, वात्सल्यं समानदेवगुरुधर्माणां भोजनवसनदानोपकारादिभिस्सम्माननम्, प्रभावना धर्मकथाप्रतिवादिविजयदुष्करतपश्चरणकरणादिभिर्जिनप्रवचनप्रकाशनम्, यद्यपि च प्रवचनं शाश्वतत्वात्तीर्थकरभाषितत्वात्सुरासुरनमस्कृतत्वाद्वा स्वयमेव दीप्यते तथापि दर्शनशुद्धिमात्मनोऽभीप्सुर्यो येन गुणेनाधिकः स तेन तत्प्रवचनं प्रभावयति—यथा भगवदाचार्यवज्रस्वामिप्रभृतिक इति । तदेवं दर्शनाचारं यः प्रतिसेवते स दर्शनप्रतिसेवनाकुशील उच्यते । एवं चारित्राचारा अष्टौ प्रणिधानयोगयुक्तस्य पञ्चसमितयस्त्रिगुप्तय इति । तान् यः प्रतिसेवते स चारित्रप्रतिसेवनाकुशीलः । तपआचारास्तु द्वादशविधा बाह्याभ्यन्तररूपाः तद्विराधकस्तपः प्रतिसेवनाकुशील इति । यद्वा चरणप्रतिसेवनाकुशीलो यः कौतुकभूतिकर्मप्रश्नाप्रश्ननिमित्ताजीवकल्ककुरुकालक्षणविद्यामन्त्रादीन्युपजीवति सः, तत्र कौतुकं आश्चर्यं यथा मायाकारको मुखे गोलकान् प्रक्षिप्य कर्णेन निष्काशयति नासिकया वा । तथा मुखादग्नि निष्कासयतीत्येवंभूतम् भूतिकर्म नाम यज्ज्वरितादीनामभिमंत्रितेन क्षारेण रक्षाकरणम् । प्रश्नाप्रश्नं नाम - यत्स्वप्नविद्यादिभिः शिष्टस्यान्येभ्यः
६८८