________________
द्वितीय भाग / सूत्र - ३, तृतीय: किरणे
૦ જ્ઞાન-દર્શન-ચારિત્ર-લિંગ-યથાસૂક્ષ્મના ભેદથી સેવાપુલાક પાંચ પ્રકારનો છે.
सम्प्रति सेवापुलाकानां स्वरूपमाह
-
६८१
सूत्राक्षराणां स्खलितमिलितादिभिरतिचारैर्ज्ञानमाश्रित्याऽऽत्मनो निस्सारकारी ज्ञानपुलाकः । कुदृष्टिसंस्तवादिभिरात्मगुणघातको दर्शनपुलाकः । मूलोत्तरगुणप्रतिसेवनया चारित्रविराधनेनात्मभ्रंशकश्चारित्रपुलाकः, तत्र मूलगुण महाव्रतादयः, उत्तरगुणाः पिण्डविशुद्ध्यादयः । उक्तलिङ्गाधिकलिङ्गङ्ग्रहणनिर्हेतुकापरलिङ्गकरणान्यतरस्मादात्मनो निस्सारकर्त्ता लिङ्गपुलाकः । ईषत्प्रमादमनःकरणकाकल्प्यग्रहणान्यतरेणाऽऽत्मभ्रंशको 'यथासूक्ष्मपुलाकः ॥ ३॥
सूत्राक्षराणामिति । सर्वद्रव्यपर्यायनयाद्यर्थसूचनात् पदानामनेकेषां सीवनात् सम्यक्कथनाद्वा सूत्रं, अल्पाक्षरं महार्थं द्वात्रिंशद्दोषविधुरं अष्टभिर्गुणैरुपेतञ्च तद्भवति, गुणाश्चैवं ‘निर्दोषं सारभूतञ्च हेतुयुक्तमलङ्कृतम् । उपनीतं सोपचारं मितं मधुरमेव चे' ति । ईदृशञ्च सूत्रमस्खलितादिगुणोपेतमुच्चारणीयमपरथाऽतिचारप्राप्तिः स्यात्, तथा च सूत्राणां पूर्वोक्त लक्षणानां स्खलितमिलिताद्युच्चारणेन परिप्राप्तातिचारैर्ज्ञानस्य मालिन्याद् य आत्मानं निर्बलं विदधाति स ज्ञानपुलाक इत्यर्थः । सूत्रे तदर्थे वा यदृच्छया प्रवृत्तौ हि करणचरणस्यानवस्था भवति, ततश्च न तीर्थमनुसरति, नैव च प्रतिषिद्धं समाचरतस्तस्य संयमो भवति, तदभावे दीक्षा निरर्थिका तन्निरर्थकतायाञ्च मोक्षस्याप्यभावः स्यादिति निस्सारो भवत्यात्मा । अथ दर्शनपुलाकं लक्षयति कुदृष्टीति, कुत्सिता जिनागमविपरीतत्वादृष्टिर्दर्शनं येषां ते कुदृष्टयः पाखण्डिन:, तेषां संस्तवः पुण्यभाज एते, सुलब्धमेषां जन्म, दयालव एत इत्येवं स्तुतिः, अयं हि सम्यक्त्वस्यातिचारः, यद्वा कुदृष्टिभिरेकत्र संवासात्परस्परालापजन्यः परिचयः कुदृष्टिसंस्तवः, अयमपि सम्यक्त्वस्यातिचारः, एकत्र वासे हि तत्प्रक्रिया श्रवणात्तत्तत्क्रियादर्शनाच्च दृढसम्यक्त्वस्यापि दृष्टिभेदस्सम्भाव्यते, किमुत मन्दबुद्धेर्नवधर्मस्य, तथा च कुदृष्टिसंस्तवादिभिर्य आत्मनो गुणस्य सम्यक्त्वस्य घातकस्स दर्शनपुलाक इति भावः । अथ चारित्रपुलाकमाह मूलोत्तरेति, मूलानीव चारित्रकल्पद्रुमस्य मूलानि तद्रूपा ये गुणास्ते मूलगुणाः प्राणातिपातादिविरमणरूपास्तेषां प्रातिकूल्येन सेवनं मूलगुणप्रतिसेवनं, यथैकेन्द्रियाणां संघट्टनगाढागाढपरितापनोपद्रवणादिरूपं, मूलगुणापेक्षयोत्तरभूता गुणा वृक्षशाखा इवोत्तर - गुणाः, पिण्डविशुद्ध्यादयः तेषां प्रतिसेवना, उत्तरगुणप्रतिसेवना, तत्र मूलोत्तरगुणप्रतिसेवनापदेन मूलोत्तरगुणातिचारप्रतिसेवना ग्राह्या पदैकदेशे पदसमुदायोपचारेण प्रातिकूल्येन वा