________________
द्वितीयो भाग / सूत्र - ३९-४०, द्वितीयः किरणे
६५९ सम्प्रति विजयादीनाह -
ततश्चोपरि पूर्वादिक्रमेण विजयवैजयन्तजयन्तापराजितानि विमानानि सन्ति । मध्ये च सर्वार्थसिद्धविमानम् । आद्यचतुर्विमानस्थानामुत्कृष्टतो द्वात्रिंशत्सागरोपमं जघन्यत एकत्रिंशत्सागरोपममायुः । सर्वार्थसिद्धस्थानान्तु जघन्याभावेनोत्कर्षण त्रयस्त्रिंशत्सागरोपममायुः । आद्यस्थानद्वयं घनोदधिप्रतिष्ठं तदुपरि स्थानत्रयं वायुप्रतिष्ठं तदुपरि स्थानत्रयञ्च घनोदधिधनवातप्रतिष्ठं शेषाणि च गुरुलघुगुणवत्त्वादाकाशप्रतिष्ठानि ॥ ४०॥
ततश्चोपरीति । नवौवेयकोपरीत्यर्थः । पूर्वादिक्रमेणेति, पूर्वस्यां विजयः दक्षिणस्यां वैजयन्तः उत्तरस्यां जयन्त इत्येवंक्रमेणेत्यर्थः । देवानामप्येवमेवाभिधानानि, यैरभ्युदयविघ्नहेतवो जितास्तैश्च ये न पराजितास्ते देवास्तानि विमानान्यपि तदभिख्यानानीति भावः । मध्ये चेति, विजयादीनां मध्य इत्यर्थः, सर्वेऽभ्युदयार्थास्सिद्धा येषामिति सर्वार्थसिद्धास्तेषां विमानमित्यर्थः, एभ्य ऊर्ध्वं विमानानामभावादेतानि अनुत्तरविमानान्युच्यन्ते । एतेषां जघन्योत्कृष्टस्थिती आह आद्येति, विजयवैजयन्तापराजितदेवानामित्यर्थः, सर्वार्थसिद्धानान्त्विति तु शब्देन द्योतितं विशेषमाह जघन्याभावेनेति । सर्वार्थसिद्धं संख्येयविस्तृतं शेषाणि चत्वार्यसंख्येयविस्तृतानि, विमानप्रस्तटाश्च सौधर्मेशानयोस्त्रयोदश सनत्कुमारमाहेन्द्रयोादश ब्रह्मलोके षट् लान्तके पञ्च शुक्रे चत्वारः, एवं सहस्रारे, आनतप्राणतयोश्चत्वारः, एवमारणाच्युतयोः, ग्रैवेयकेष्वधस्तनमध्यमोपरिमेषु प्रत्येकं त्रयः, अनुत्तरेष्वेक इति द्विषष्टिस्ते भवन्ति । सौधर्मशानयोर्विमानानि पञ्चवर्णानि, सनत्कुमारमाहेन्द्रयोश्चतुर्वर्णानि कृष्णवर्णाभावात् । ब्रह्मलोकान्तकयोः त्रिवर्णानि कृष्णनीलवर्णाभावात्, महाशुक्रसहस्रारयोर्द्विवर्णानि कृष्णनीलहारिद्रवर्णाभावात्, आनतप्राणतारणाच्युतकल्पेषु एकवर्णानि शुक्लवर्णस्यैकस्यैव भावात्, ग्रैवेयकविमानान्यनुत्तरविमानानि च परम-शुक्लानि निखिलानि च विमानानि नित्योद्योतानि नित्यालोकानि स्वयंप्रभाणि चेति । ननु आगमे पृथिवीनामष्टसंख्याकत्वस्यैवोक्तत्वेनाधोलोके सप्तानां मुक्तिस्थाने ईषत्प्राग्भारनाम्न्याः पृथिव्यास्सत्त्वेन सौधर्मादिदेवविमानानामन्तराले पृथिव्यभावेनैतानि कि प्रतिष्ठानीत्यत्राहाद्यस्थानद्वयमिति, सौधर्मेशानविमानव्रजद्वयमित्यर्थः, जगत्स्वभावादेवासौ घनोदधिर्न स्पन्दते विमानान्यपि तत्रस्थानि न कदाचन जीर्यन्ति । तदुपरि स्थानत्रयमिति सनत्कुमारमाहेन्द्रब्रह्मलोकत्रयमित्यर्थः । वायुप्रतिष्ठमिति, अतिनिचिते निश्चले १. एतान्यावलिकाप्रविष्टान्येव, मध्यवर्तिसर्वार्थसिद्धविमानं वृत्तं, शेषाणि विजयादीनि चत्वार्यपि त्र्यस्त्राणि ॥