________________
द्वितीयो भाग / सूत्र - ३७, द्वितीयः किरणे
६५५ तेषामवस्थानविशेषविज्ञापनायाह -
सौधर्मेशानसनत्कुमारमाहेन्द्रब्रह्मलोकलान्तकमहाशुक्रसहस्त्राराऽऽनतप्राणताऽऽरणाच्युतभेदेन द्वादशविधानि कल्पोपपन्नदेवानां स्थानान्युपर्युपरि भवन्ति ॥ ३७॥ __ सौधर्मेति । सौधर्मदेवलोकस्य मध्यभागवर्त्ति शक्रनिवासभूतं सौधर्मावतंसकं नाम विमानं तदुपलक्षितत्वात्सौधर्मः, कल्प:-सन्निवेश:-विमानप्रस्तारः, सकलविमानप्रधानेशानावतंसकोपलक्षितस्थानविशेष ईशानः, सनत्कुमारनामप्रधानविमानविशेषस्सनत्कुमारः, एवमेव माहेन्द्रादयोऽपि तत्तद्देवाधिष्ठितस्थानविशेषा भाव्याः । एते च द्वादशविधाः कल्पोपपन्नदेवानां निवासयोग्यः । उपर्युपरीति, सामीप्ये द्वित्वं न चात्र न सामीप्यमस्ति, असंख्येययोजनोत्तरत्वात्तेषामिति वाच्यम्, तुल्यजातीयेनाव्यवधानस्यैव सामीप्येन विवक्षितत्वात् न च तेषां तुल्यजातीयं व्यवधायकमिष्टमिति भावः, स्थानान्युपर्युपरि भवन्तीत्यनेन देवानां विमानानाञ्चोपर्युपरिभवनं प्रतिषिद्धं तस्यानिष्टत्वात् श्रेणिप्रकीर्णकानां विमानानामपि तिर्यगवस्थानाच्च, अपि तु कल्पा एवोपर्युपरि भवन्ति, ते च कल्पास्सौधर्मादयो नैकस्मिन् प्रदेशे नापि तिर्यङ्न वाऽधस्तात् वर्तन्ते किन्तु यथानिर्देशमुपर्य्यपरीति भावः । एवञ्च तिर्यग्लोकादूर्ध्वमसंख्येययोजनोपरि मेरूपलक्षितदक्षिणभागार्धव्यवस्थितस्सौधर्मः कल्पः, मेरूपलक्षितोत्तरदिग्भागव्यवस्थित उपरितनकोट्या ईषत्समुच्छ्रिततरः ऐशानः कल्पः, सौधर्मस्योपरि बहुयोजनोज़ समश्रेणिव्यवस्थितः सनत्कुमारः, ऐशानस्योपरि ईषत्समुच्छ्रितोपरितनकोटि
हेन्द्रः, सनत्कुमारमाहेन्द्रयोरुपरि बहुयोजनात्परतो मध्ये ब्रह्म-लोकनामा कल्पः, तत उपरि बहुयोजनानन्तरं उपर्युपरि लान्तकमहाशुक्रसहस्रारकल्पास्त्रयः, ततो बहुयोजनादूर्ध्वं सौधर्मेंशानकल्पवत् आनतप्राणतौ कल्पौ तदुपरि समश्रेणी सनत्कुमारमाहेन्द्रवत् आरणाच्युतौ व्यवस्थिताविति द्वादशकल्पा विज्ञेयाः ॥
१. आवलिकाप्रविष्टानि चतुसृषु दिक्षु श्रेण्या व्यवस्थितानि, आवलिकाबाह्यानि तु प्राङ्गणप्रदेशे कुसुमप्रकर इव इतस्ततो विप्रकीर्णानि, तानि च मध्यवर्तिविमानेन्द्रस्य दक्षिणतोऽपरतः उत्तरतश्च विद्यन्ते नतु पूर्वस्यां दिशि, नानासंस्थानसंस्थितानि च, आवलिकाप्रविष्टानि च प्रतिप्रस्तटं विमानेन्द्रकस्य पूर्वदक्षिणापरोत्तररूपासु चतसृषु दिक्षु श्रेण्या व्यवस्थितानि, विमानेन्द्रकश्च सर्वोऽपि वृत्तः, ततः पार्श्ववर्तीनि चतसृष्वपि दिक्षु त्र्यस्त्राणि तेषां पृष्ठतः चतसृष्वपि दिक्षु चतुरस्राणि तेषां पृष्ठतो वृत्तानि, ततोऽपि त्र्यस्त्राणि पुनश्चतुरस्राणीत्येवं आवलिकापर्यन्तं भाव्यम् । एवं ग्रैवेयकविमानं यावदबोध्यम् ॥