________________
द्वितीय भाग / सूत्र - ३२, द्वितीय: किरणे
६४७
तत्रेति । प्रोक्तद्वीपेषु मध्य इत्यर्थः तथाच यावत्पुष्करंवद्वीपार्धं मानुषं क्षेत्रं पञ्चचत्वारिंशद्योजनशतसहस्राणि आयामविष्कम्भेण, एका योजनकोटी द्वाचत्वारिंशच्छतसहस्राणि त्रिंशत्सहस्राणि द्वे योजनशते एकोनपञ्चाशत् किञ्चिद्विशेषाधिके परिक्षेपेण बोध्यम्, मनुष्यक्षेत्रे कर्मभूमिका अकर्मभूमिका अन्तरद्वीपकाश्चेति त्रिविधा मनुष्याः परिवसन्ति, तथा च जम्बूद्वीपस्य सप्त क्षेत्राणि धातकीखण्डस्य चतुर्दश पुष्करार्धस्य च चतुर्द्दशेति संमिलितानि पञ्चत्रिंशत्क्षेत्राणि मानुषाणीति भावः । अस्य व्यवच्छेदकमाह ततः परमिति, पुष्करवरार्धात्परं बाह्यपुष्करवरार्धक्षेत्रं प्रतिरुद्धयं नरक्षेत्रसीमाकारी प्राकाराकारः यथा भित्तिर्गृहं द्वेधाकरोति तथा द्वीपस्यास्य भेदकोऽन्वर्थनामा मानुषोत्तरो भूधरो वर्वर्तीति भावः, अयं पर्वत एकविंशत्युत्तरसप्तदशयोजनशतान्युच्चैस्त्वेन मूले द्वाविंशत्युत्तराणि दशयोजनशतानि विष्कम्भेण वर्त्तते, अमुं मानुषा न कदाचिदपि व्यतिव्रजितवन्तो व्यतिव्रजन्ति व्यतिव्रजिष्यन्ति वाऽन्यत्र चारणादिभ्यः। ततः किमित्यत्राह नास्मात्परत इति, यस्मादयं पर्वतो मानुषक्षेत्रमात्रस्योत्तरं वर्त्ततेऽत एवास्मात्परतः क्षेत्रेषु मनुष्याणां न जन्ममरणे भवतः, मनुष्याणां हि जन्म मरणं चात्रैव क्षेत्रे, यदि नाम केनचिद्देवेन दानवेन विद्याधरेण वा पूर्वानुबद्धवैरनिर्यातनार्थमेवंरूपा बुद्धिः क्रियते यथाऽयं मनुष्योऽस्मात्स्थानादुत्पाट्य मनुष्यक्षेत्रस्य बहिः प्रक्षिप्यतां येनोर्ध्वं शोषं शुष्यति म्रियते वेति तथापि लोकानुभावादेव सा काचनापि बुद्धिर्भूयः परावर्त्तते, यद्वा संहरणमेव न भवति, संहृत्य वा भूयस्समानयति तेन संहरणतोऽपि मनुष्यक्षेत्राद्बहिर्मनुष्याणां न कदापि मरणम्, येऽपि जङ्घाचारिणो विद्याचारिणो वा नन्दीश्वरादीनपि यावद्गच्छन्ति तेऽपि तत्र गतान मरणश्नुवते किन्तु मनुष्यक्षेत्रमागता एवेति भावः ॥
શું સઘળા દ્વીપોમાં મનુષ્યો વસે છે કે દ્વીપવિશેષમાં વસે છે ? આ પ્રશ્નના જવાબમાં કહે છે કેપુષ્કવરદ્વીપનું વર્ણન
ભાવાર્થ – “ત્યાં પુષ્કરવરદ્વીપના અર્ધભાગ સુધી મનુષ્યક્ષેત્ર છે. ત્યારબાદ મનુષ્યલોક વિભાજક પ્રકારના આકારવાળો, માનુષોત્તર નામવાળો પર્વત વર્તે છે. આ માનુષોત્તર પર્વત પછી અર્થાત્ માનુષોત્તર
१. पुष्कराणि पद्मानि तैर्वर:- पुष्करवरः स चासौ द्वीपश्च पुष्करवरद्वीपः तस्यार्धं इति विग्रहः । पूर्वार्धे उत्तरकुरुषु यः पद्मवृक्षः, पश्चिमार्थे उत्तरकुरुषु यो महापद्मवृक्षः, तयोरत्र पुष्करवरद्वीपे यथाक्रमं पद्मपुण्डरीकौ देवौ महर्द्धिकौ यावत्पल्योमस्थितिको पूर्वार्धापरार्धाधिपती परिवसतः । अतिविशालत्वात्पद्मं वृक्ष इव पद्मवृक्षं, पद्मञ्च पुष्करमिति पुष्करवरोपलक्षितो द्वीपः पुष्करवरद्वीप उच्यत इति ॥
२. देवकुरूत्तरकुरूणां महाविदेहेऽन्तर्भावेणैतद्बोध्यमन्यथा पंचदशकर्मभूमिस्त्रिंशदकर्मभूमिरिति पञ्चचत्वारिंशत् क्षेत्रसंख्या व्याहन्येत ॥