________________
६४०
तत्त्वन्यायविभाकरे रतिरमणीयतया रतिविषयतां नीयत इति रम्यं तदेव रम्यकं रम्यकदेवसम्बन्धाद्वा तादृशम् । हैरण्यवतदेवसम्बन्धाद्वैरण्यवतं, ऐरावतं ऐरावतयोगात्तादृशं तथा चैतानि सप्तक्षेत्राणीत्यर्थः । एषां विशिष्टक्रमसन्निवेशाभिधित्सया प्राहोत्तरोत्तरक्रमेणेति, भरतोत्तरं हैमवतं तदुत्तरं हरिक्षेत्रमित्येवं क्रमेणेत्यर्थः । कतमदिगवच्छेदेनेत्यत्राहोत्तरदिग्वर्तीनीति, उत्तरदिवगच्छेदेनेत्यर्थः, तथा च जम्बूद्वीपस्य दक्षिणगामिनि पर्यन्ते स्थितं कालचक्रैर्नानावस्थमधिज्यधनुराकारं पूर्वदक्षिणपश्चिमसमुद्रेण स्पृष्टं भरतक्षेत्रं षड्विशत्युत्तरपंचशतयोजनमितं तदुत्तरं हैमवतं तदुत्तरं हरिक्षेत्रमित्येवं क्रमो विज्ञेयः । क्षेत्राणामेषां किं कृता विभागव्यवस्थेत्याशङ्कायामाह क्षेत्रव्यवच्छेदकेति, प्राचुर्येण हिमाभिसम्बन्धाद्धिमवान् महांश्चासौ हिमवान् महाहिमवान् इन्द्रगोपवदसत्यपि हिमे रूढिविशेषबलाद्धिमवदाख्या । यस्मिन् देवा देव्यश्च क्रीडार्थं निषीदन्ति प्राचुर्येण स निषधः । नीलवर्णयोगानीलः, रुक्मसद्भावाद्रुक्मी, शिखरबाहुल्याच्छिखरी, एते षट्वर्षधरपर्वताः, वंशो वर्षो वास्य इति पर्यायनामानि क्षेत्रस्य, वर्षसन्निधानाद्वर्षा भरतादयः, तानसंकरेण विभज्य धारणाद्वर्षधरा एवम्लताः पर्वता वर्षधरपर्वताः, तैरलङ्कृतानि स्वस्वपूर्वापरकोटिभ्यां लवणसमुद्रस्पर्शिभि-विभक्तानि, तथा च भरतहैमवतयोर्मध्यस्थत्वाद्धिमवान् तयोविभागमापादयति, हैमवतहरिवर्षयोर्मध्यगत्वान्महाहिमवान् तयोर्व्यवच्छेदक इत्येवं कृतो क्षेत्रविभाग इति भावः, अत्र विस्तरस्तु ग्रन्थान्तरादवसेयः । अथ जम्बूद्वीप इव वर्षवर्षधरादीनां संख्यानियमं धातकीखण्डस्य पुष्करार्धस्य चाहैवमेवेति, जम्बूद्वीपवदेवेत्यर्थः, धातकीखाण्ड इति, धातकीनां वृक्षविशेषाणां खण्डो वनसमूहो धातकीखण्डस्तद्युक्तो द्वीपोऽपि धातकीखण्डो लवणसमुद्रं परिक्षिप्य स्थितः कालोदसमुद्रपरिक्षिप्तः वलयाकारसंस्थानसंस्थितो विजयवैजयन्तजयन्तापराजितरूपद्वारचतुष्टययुतश्च । लक्षचतुष्टयविष्कम्भो जम्ब्वपेक्षया द्विगुणभरतादिक्षेत्रयुतः तद्विभाजकद्वादशवर्षधरपर्वतविलसितश्च । द्वे भरतक्षेत्रे द्वे हैमवतक्षेत्रे इत्येवं तथा द्वौ हिमवन्तौ द्वौ महाहिमवन्तावित्येवं क्रमेण च द्विगुणक्षेत्रपर्वताः मेर्वादयोऽपि द्वौ द्वौ वेदितव्याविति भावः । पुष्करार्धे चेति, पद्मबाहुल्यात् पुष्करद्वीपं, तदर्धभागे द्वीप इत्यर्थः, चशब्देन जम्बूद्वीपापेक्षयैव क्षेत्रादीनामत्र द्वैगुण्यं सूच्यते न तु धातकीखण्डापेक्षया, तथा च यथा धातकीखण्डे भरतादिक्षेत्रपर्वतादीनां द्वैगुण्यं तथा पुष्करार्धेऽपि जम्बूद्वीपापेक्षं द्वैगुण्यम्, तत्र पुष्करद्वीपः कालोदसमुद्रपरिक्षेपी षोडशलक्षविष्कम्भस्तस्यार्धमारात्तममष्टौ योजनलक्षाणि तस्मिन् पुष्करार्धे एव द्वैगुण्यं भरतादिक्षेत्राणां हिमवदादिपर्वतानाञ्च नापरार्धे, पुष्करद्वीपार्धविभागकारी च मानुषोत्तरो नाम सुननगरप्राकारवृतश्शैलविशेष इति भावः ॥