________________
६३०
तत्त्वन्यायविभाकरे વિવેચન – શર્કરામભા આદિ પૃથિવીઓની જાડાઈ એક લાખ બત્રીસ હજાર જોજન આદિના ક્રમથી वी.
અહીં શર્કરપ્રભા આદિ પૃથિવીઓમાં નારકી જીવો જ રહે છે. એવકારથી પહેલી રત્નપ્રભામાં જેમ ભવનપતિઓનો નિવાસ છે, તેમ અહીં ભવનપતિઓને નિવાસ નથી પરંતુ નારકી જીવોનો જ નિવાસ છે.
૦ તેમજ ક્રમથી બીજીમાં નારકોના અગિયાર પ્રસ્તરો, ત્રીજીમાં નવ પ્રસ્તરો, ચોથીમાં સાત પ્રસ્તરો, પાંચમીમાં પાંચ પ્રસ્તરો, છઠ્ઠીમાં ત્રણ પ્રસ્તરો અને સાતમીમાં એક પ્રસ્તર છે.
૦ વળી બીજીમાં પચીશ લાખ આવાસો, ત્રીજીમાં પંદર લાખ આવાસો, ચોથીમાં દસ લાખ આવાસો, પાંચમીમાં ત્રણ લાખ આવાસો, છઠ્ઠીમાં પાંચ જૂન એક લાખ આવાસો અને સાતમીમાં પાંચ જ न२पासो छे.
रत्नप्रभापृथिव्यन्तनिरूपणप्रसङ्गेन मध्यलोकवर्त्तिनामपि व्यन्तरवानमन्तराणां निवासस्थानमाह -
उपरितनसहस्रयोजनस्योर्ध्वमधश्च योजनशतं मुक्त्वा मध्ये पिशाचाद्यष्टविधानां जघन्यतो दशसहस्रवर्षायुष्काणामुत्कृष्टत एकपल्योपमायुष्काणां व्यन्तराणां भवनानि सन्ति ॥ २४॥
उपरितनेति । रत्नप्रभाया हि काण्डत्रयं भवति तत्रोपरितनं षोडशसहस्रयोजनमितं खरकाण्डं ततश्चतुरशीतिसहस्रयोजनमितं पङ्कबहुलं काण्डं, ततश्चाशीतिसहस्रयोजनमितं जलबहुलं तत्र खरकाण्डस्योपरितनयोजनसहस्रस्योर्ध्वमधश्चैकैकं योजनशतं विहाय मध्येऽष्टशतयोजने व्यन्तराणां नगराणि बहिर्विभागे वृत्तानि चतुरस्राण्यन्तरेऽधोभागे चारुपुष्करकर्णिकानुकारीणि नगराण्यासत इति भावः, व्यन्तराणामिति, अन्तरमवकाशः तच्चाश्रयरूपं, विविधं भवननगरावासरूपमन्तरं येषां ते व्यन्तराः, तत्रोपर्युक्तस्थाने भवनानि, नगराण्यपि तिर्यग्लोकेयथा जम्बूद्वीपद्वाराधिपतेविजयदेवस्यान्यस्मिन् जम्बूद्वीपे द्वादशयोजनसहस्रप्रमाणा नगरी, आवासास्त्रिष्वपि लोकेषु तत्रोर्ध्वलोके पण्डकवनादाविति । अथवा विगतमन्तरं मनुष्येभ्यो येषां ते व्यन्तराः, तथाहि मनुष्यानपि चक्रवर्त्तिवासुदेवप्रभृतीन् भृत्यवदुपचरन्ति केचिद्व्यन्तरा इति मनुष्येभ्यो विगतान्तराः, एते हि देवनिकायविशेषाः पूर्वोदिताष्टशतयोजनेषूत्पन्नास्सन्तस्त्रिलोक्यामूर्ध्वमधस्तिर्यक्षु च स्वभवननगरावासेषु स्वभावानवस्थितेर्बाल
१. चक्रं रत्नभूतः प्रहरणविशेषः तेन विजयाधिपत्ये वर्तितुं शीलमस्येति चक्रवर्ती भरतक्षेत्रे भरतादयो द्वादश चक्रवर्तिनोऽस्यामवसर्पिण्यामभूवन्, त्रिखण्डरताधिपो बलदेवघुमाता वासुदेवः, अवसर्पिण्यां ते नव उत्सर्पिण्यां च नव भवन्ति ॥