________________
द्वितीयो भाग / सूत्र - २२, द्वितीयः किरणे
६२७ योजनसहस्रं विहाय मध्येऽष्टसप्ततिसहस्राढ्ये लक्ष इत्यर्थः, तत्र केषां निवास इत्यत्राह भवनपतीनामिति, भवनानां गृहविशेषाणां पतयोऽसुरनागविद्युत्सुपर्णाग्निवातस्तनितोदधिद्वीपदिक्कमारा दश देवविशेषास्तेषामित्यर्थः, भवनमायामापेक्षया किञ्चिन्न्यूनोच्छ्रायमानं, प्रासाद आयामद्विगुणोच्छ्रायः, बहिर्वृत्तान्यन्तस्समचतुरस्राणि अधःकर्णिकासंस्थानानि भवनानि, आवासास्तु कायमानस्थानीया महामण्डपा विचित्रमणिरत्नप्रभाभासितसकलदिक्चक्रा इति विशेषोऽवसेयः । भवनानीति, असुरादीनां विचित्रसंस्थानानि विमानानीत्यर्थः, अन्ये तु नवतियोजनसहस्राणामधस्ताद्भवनानि, अन्यत्र चोपरितनमधस्तनञ्च योजनसहस्र मुक्त्वा सर्वत्रापि यथासम्भवमावासा इत्याहुः । तत्रासुरकुमारादीनां दक्षिणोत्तरदिग्भाविनां सर्वसंख्यया भवनानि चतुष्पष्टिलक्षा भवन्ति, नागकुमाराणां चतुरशीतिलक्षाः, सुपर्णकुमाराणां द्विसप्ततिलक्षाः, वायुकुमाराणां षण्णवतिलक्षाः, द्वीपकुमारदिक्कुमारोदधिकुमारविद्युत्कुमारस्तनितकुमाराग्निकुमाराणां षण्णामपि दक्षिणोत्तरदिग्वर्तिश्लक्ष्णयुग्मरूपाणां प्रत्येकं षट्सप्ततिर्लक्षा भवन्ति । भवनपतीनां स्थिति नियमयति जघन्यत इति, उत्कृष्टामाहोत्कृष्टत इति, एते भवनपतयः कुमारवदुद्धतभाषाऽऽभरणप्रहरणावरणयानवाहनत्वादुल्बणरागक्रीडनपरत्वाच्च कुमारा उच्यन्ते नन्वष्टसप्ततिसहस्राढये लक्षे रत्नप्रभायां यदि वासो भवनपतीनां नारकाणां तर्हि क्व वास इत्याशंकायामाहतत्रैवेति, तावन्मात्रायामेव रत्नप्रभायामित्यर्थः, ननु तर्हि तयोस्सांकर्यं स्यादित्यत्राह भागान्तर इति, भवनपतिवासानां दक्षिणोत्तरभेदतस्सत्त्वेनान्यत्र नारकाणां निवासा इति भावः, रत्नप्रभायां नारकाणां त्रयोदश प्रस्ताराः । नारकावासाश्च त्रिंशल्लक्षाणि, द्रव्योर्थतया नित्या रत्नप्रभा प्रतिनियतसंस्थानादिरूपाकारस्य तादवस्थ्यात्, वर्णपर्यायैर्गन्धपर्यायै रसपर्यायैस्स्पर्शपर्यायैश्चाशाश्वताः वर्णादीनामन्यथाभवनादिति ॥
१. नारकावासा द्विविधाः आवलिकाप्रविष्टाः प्रकीर्णकरूपाश्चेति, आवलिकाप्रविष्टा नाम अष्टासु दिक्षु समश्रेण्या व्यवस्थिताः, आवलिकासु श्रेणीषु प्रविष्टा व्यवस्थिता इति व्युत्पत्तेः, ते संस्थानमधिकृत्य त्रिविधाः, वृत्ताः त्र्यस्त्राः चतुरस्त्राः, आवलिकाबाह्याः प्रकीर्णकाः नानासंस्थानसंस्थिताः, सप्तमपथिक आवलिकाप्रविष्टा एव । तथा चोभयविधनारकवाससंख्येयं रत्नप्रभायां त्रिंशलक्षेति ॥ २. रत्नप्रभेयं द्रव्यार्थादेशेन शाश्वती आकारस्य सर्वदाभावात् पर्यायार्थादेशेनाशाश्वती, कृष्णसुरभितिक्तकठिनत्वादिपर्यायाणां प्रतिक्षणं कियत्कालादनन्तरं वाऽन्यथान्यथाभवनात् । अनादित्वान्न कदाचिन्नासीत् न कदाचिन्न भवति सदा भावात् न कदाचिन्न भविष्यति, अपर्यवसितत्वात् किन्तु अभूत् भवति भविष्यति च, एवं त्रिकालभावित्वाछुवा, ध्रुवत्वान्नियतावस्थानां, धर्मास्तिकायादिवत्, नियतत्वादेव शाश्वती, शश्वद्भावे प्रलयाभावात् शाश्वतत्वादेव च सततं गंगासिन्धुप्रवाहप्रवृत्तावपि पौण्डरीकहूद इवान्यतरपुद्गलविचटनेऽपि अन्यतरपुद्गलोपचयभावादक्षया, अक्षयत्वादेव चाव्यया मानुषोत्तराबहिस्समुद्रवत्, अव्ययत्वादेव स्वप्रमाणावस्थिता, सूर्यमण्डलादिवत्, एवं सदावस्थानेन चिन्त्यमाना नित्या जीवस्वरूपवदित्येवं सर्वासु पृथिवीषु बोध्यम् ॥