________________
६२०
तत्त्वन्यायविभाकरे
एतासां पृथिवीनां किं निरालम्बनत्वं सालम्बनत्वं वेत्यत्राह -
-
ताश्च प्रत्येकमनुक्रमतो घनोदधिघनवाततनुवाताकाशैर्लब्धप्रतिष्ठा वलयिताश्च ॥ २०॥ ताश्चेति । पृथिव्यः पुनरित्यर्थः, न ह्यव्यवधानेन रत्नप्रभादयश्शर्कराप्रभादिषु प्रतिष्ठिता नापि निरालम्बना अपि तु प्रत्येकं पृथिव्योऽनुक्रमं घनोदध्यादिषु प्रतिष्ठिता इति भाव:, तथा च रत्नप्रभा घनोदधौ घनोदधिश्च घनवाते स च तनुवाते सोऽप्याकाशे ततोऽधश्शर्कराप्रभा साप घनोदधावित्येवं पृथिवीनां प्रतिष्ठितत्वमाकाशन्तु स्वस्मिन्नेव प्रतिष्ठितं नत्वाधारान्तरसमासादितप्रतिष्ठं, सर्वद्रव्याधारतया तत्सिद्धेः, तस्यैवाधाराधेयरूपत्वाच्चेति तात्पर्यार्थः । घनोदधीति, घनः स्त्यानी भूतोदकमेवोदधिर्घनोदधिः, अयं बाहल्येन विंशतियोजनसहस्रपरिमितो मध्यभागे, घनः पिण्डीभूतो वातो घनवातोऽसंख्येययोजनसहस्रपरिमितो बाहल्येन मध्यभागे, तनुश्चासौ वातश्च तनुवातोऽसंख्यययोजनसहस्रपरिमितो बाहल्येन मध्यभागे, आकाशोऽवकाशान्तरं असंख्येययोजनसहस्रपरिमितं बाहल्येन मध्यभागे, एते हि मध्यभागे यथोक्तप्रमाणबाहल्यास्ततः प्रदेशप्रदेशहान्या हीयमानाः स्वस्वपृथिवीपर्यन्तेषु तनुतरभूताः, तनुतरीभूत्वा च स्वस्वपृथिवी वलयाकारेण वेष्टयित्वा स्थिता:, अत एवामूनि वलयान्युच्यन्ते तेषामुच्चैस्त्वं स्वस्वपृथिव्यनुसारेणेत्याशयेनाह वलयिताश्चेति, घनोदध्यादिभिर्वलयाकारेण वेष्टिता इत्यर्थः ॥
આ પૃથિવીઓ શું સાલંબન છે કે નિરાલંબન ? આના જવાબમાં જણાવે છે કેપૃથિવીઓનું વર્ણન
ભાવાર્થ "वणी ते पृथिवीखो हरे, अनुभथी धनोद्दधि-धनवात-तनुवात-खाशोथी प्राप्त પ્રતિષ્ઠાવાળીઓ અને વલયના આકારે વેષ્ટિત છે.”
વિવેચન વળી તે સાત પૃથિવીઓ, વ્યવધાન વગર, ખરેખર, રત્નપ્રભા વગેરે પૃથિવીઓ, શર્કરાપ્રભા આદિના આધારે પ્રતિષ્ઠિત નથી, આલંબન વગરની પણ નથી, પરંતુ પ્રત્યેક પૃથિવી ક્રમસર ઘનોદધિ આદિના આધારે પ્રતિષ્ઠિત (રહેલી) છે. તથાચ રત્નપ્રભા ઘનોદધિના આધારે છે, ઘનોધિ ઘનવાતના આધારે છે, ઘનવાત તનુવાતના આધારે છે અને તનુવાત આકાશના આધારે છે. તેનાથી નીચે શર્કરાપ્રભા છે. તે શર્કરાપ્રભા પણ ઘનોદધિના આધારે છે. એમ પૂર્વકથિત ક્રમથી પૃથિવીઓનું પ્રતિષ્ઠિતપણું છે. (ઇષત્પ્રાક્ભારા નામક પૃથિવી તો આકાશના આધારે જ રહેલ છે. તેમજ પૃથિવીના આધારે રહેલ
१. ईर्षत्प्राग्भारा तु पृथिवी आकाशप्रतिष्ठितैव, तथा पृथिवीप्रतिष्ठितास्त्रसाः स्थावराः प्राणाः प्रायः, आकाशपर्वतविमानप्रतिष्ठिता अपि ते, शरीरादिपुद्गला जीवप्रतिष्ठाः जीवेषु तेषां स्थितेः, जीवाः कर्मप्रतिष्ठां अनुदयावस्थकर्मपुद्गलसमुदायरूपेषु कर्मसु संसारिजीवानामाश्रितत्वात् । नारकादिभावेन कर्मभिर्जीवाः प्रतिष्ठिता वा । अजीवा जीवसङ्गृहीताः मनोभाषादिपुद्गलानां जीवैस्संगृहीतत्वात् संग्राह्यसंग्राहकभावेनेदम् । पूर्वत्रत्वाधाराधेयभावेन । जीवा अपि कर्मसंगृहीताः संसारिजीवानामुदयंप्राप्तकर्मवशवर्त्तित्वात् ये यद्वशास्ते तत्र प्रतिष्ठिता एवेति ॥