________________
तृतीयो भाग / सूत्र - ३९-४०, प्रथमः किरणे
५८३ आहारगुप्तिं भूषणगुप्तिञ्चाह -
मानाधिकाऽऽहारपरिवर्जनमतिमात्राहारगुप्तिः । स्नानविलेपनादिशरीरशुश्रूषावर्जनं भूषणगुप्तिः ॥ ४०॥ ___ मानाधिकेति । पुरुषस्य कवलपरिमाणं द्वात्रिंशत्कवलाः स्त्रियाः पुनरष्टाविंशतिः, ततोऽप्यधिकतया पानभोजनादिसंसेवनं ब्रह्मक्षतिकारित्वाच्छरीरपीडाकरत्वाच्चावश्यं त्याज्यं, केवलं संयमनिर्वाहार्थं चित्तस्वास्थ्योपेतो भुञ्जीत न तु रागद्वेषवशगः सर्वकालमतिमात्राहारस्य दुष्टत्वात, कदाचित्तु कारणतोऽतिमात्राहारो न दुष्ट इति । भूषणगुप्तिमाह स्नानेति, शरीरोपकरणादीनां विभूषार्थं युवतिजनमनस्तोषार्थं संस्कारो न विधेयः, अन्यथा स्त्रीजनाभिलषणीयत्वात्तस्य ब्रह्मचर्ये शंका स्यात्, उज्ज्वलवेषपुरुषदर्शनेन युवतीनां कामोद्रेकात्, किमेतास्तावदित्थं प्रार्थयमाना उपभुओ, आयतौ तु यद्भावि तद्भवतु उतश्वित् कष्टानि शाल्मकीश्लेषादयो नरक एतद्विपाका इति परिहरामि वेत्येवं रूपो वितर्कः स्यात्तस्माद्भिक्षुर्धर्मारामो धृतिमान् दान्तश्शङ्कास्थानभूतानेतान् आज्ञाऽनवस्थामिथ्यात्वविराधनादोषान्विचिन्तयन् ब्रह्मचर्ये समाहितो भवेत्, तथाविधञ्च तं देवदानवगन्धर्वयक्षरक्षः किन्नरादयोऽपि नमस्यन्ति, अयश्चाष्टादशविधो ब्रह्मचर्यधर्मः परप्रवादिभिरप्रकम्प्यतया ध्रुवः, अप्रच्युतानुत्पन्नस्थिरैक स्वभावत्वान्नित्यो द्रव्यार्थतया, शश्वदन्यान्यरूपतयोत्पादात्पर्यायार्थतयापि शाश्वतः जिनैः प्रतिपादितः, अनेन ब्रह्मचर्येण पुरा अनन्तासूत्सपिण्यवसर्पिणीषु महाविदेहे तत्कालापेक्षया इहापि वा सिद्धाः सिद्ध्यन्ति अनागताद्धायाश्च सेत्स्यन्तीति सर्वोत्तमोऽयमिति ॥
આહાર અને ભૂષણગુપ્તિનું સ્વરૂપ ___ भावार्थ - “परिभाथी अघि माहानु परिवर्डन, मे मतिमात्राप्ति ' उपाय छे. स्नानવિલેપન આદિ શરીરશુશ્રુષાનું વર્જન, એ “ભૂષણગુપ્તિ' કહેવાય છે.”
વિવેચન – પુરુષના કવલ(કોળિયા)નું પરિમાણ બત્રીશ કોળિયા છે અને સ્ત્રીના કોળિયાનું પરિમાણ અઢાવીશ કોળિયા છે. તેનાથી અધિકપણાએ પાન-ભોજન આદિનું સંસેવન બ્રહ્મચર્યની ક્ષતિ કરનાર હોઈ અને શરીરની પીડા કરનાર હોઈ તેનો અવશ્ય ત્યાગ કરવો યોગ્ય છે. ફક્ત સંયમના નિર્વાહ માટે ચિત્તની સ્વસ્થતા સહિત ભોજન કરવું જોઈએ પરંતુ રાગ-દ્વેષને વશ બની નહિ ખાવું જોઈએ, કેમ કે-સર્વકાળમાં
१. "दिव्यात्कामरतिसुखात्रिविधं त्रिविधेन विरतिरिति नवकम् । औदारिकादपि तथा तद्ब्रह्माष्टादशविकल्पमि' त्यष्टादशविधं ब्रह्मचर्यम् तदेतत्सर्वस्त्रीणां मनोवाक्कायैस्सर्वथा संगत्यागस्सर्वतो ब्रह्मचर्यम्, संयमिनां, एष्वेव देशतस्वदारसंतोषरूपं देशतो देशविरतानाम् । व्रतेषु प्रधान, उक्तञ्च व्रतानां ब्रह्मचर्यं हि निर्दिष्टं गुरुकं व्रतं । तज्जन्यपुण्यसम्भारसंयोगाद्गुरुरुच्यते इति । तीर्थान्तरीयैरप्युक्तं, 'एकतश्चतुरो वेदा ब्रह्मचर्यञ्च एकतः । एकतस्सर्वपापानि, मद्यं मांसञ्च एकतः' इति ॥