________________
५७०
तत्त्वन्यायविभाकरे ___ ज्ञानाद्याचार इति । आदिना दर्शनचारित्रतपोवीर्याणां ग्रहणम् । तत्र प्रधानः स्वयं करणात् प्रभाषणात् प्रदर्शनाच्च । अयमाचार्यः सूत्रार्थतदुभयोपेतो ज्ञानदर्शनचारित्रेषु कृतोपयोगो गच्छचिन्ताविप्रमुक्तः शुभलक्षणोपेतश्च भवति, तद्गुणाश्च षट्त्रिंशत्, तत्र पञ्च गुणा ज्ञानादय उक्ता एव, इतरे गुणाश्च देशकुलजातिरूपसंहननधृतियुक्तताकांक्षाबहु भाषामायावैधुर्य्यसूत्राद्यनुप्रयोगपरिपाटीदाढ्योपादेयवचनपर्पज्जयाल्पनिद्रत्वमाध्यस्थ्यदेशकालभावज्ञत्वप्रतिभाविविधदेशभाषाज्ञानसूत्रार्थतदुभयविधिज्ञत्व दृष्टान्त हेतूपनयनयनैपुण्यप्रतिपादनशक्ति स्वपरसमयवेर्तृत्वगाम्भीर्यदीप्तिकल्याणकारित्वशान्तदृष्टित्वरूपा विज्ञेयाः । सम्यग्ज्ञानादिगुणाधाराद्यस्मादाहत्य व्रतानि स्वर्गापवर्गसुखमृतबीजानि भव्या हितार्थमाचरन्ति स आचार्यः । अथवा ज्ञानादीत्यादिना दर्शनचारित्रतपसां ग्रहः, ज्ञानादीनामाचारे प्रधानः सः, तद्गुणसमन्वितत्वात् । तथाहि ज्ञानाचारस्य कालविनयादयोऽष्टौ गुणाः, दर्शनाचारस्य निःशङ्कितत्वादयोऽष्टौ, चारित्राचारस्येर्यांसमित्यादयोऽष्टौ, बाह्याभ्यन्तरभेदभिन्नस्य तपसोऽनशनादयो द्वादशभेदास्तथा च ज्ञानाद्याचारविषयकषट्त्रिंशद्गुणयुक्त आचार्य इति फलितार्थः, अयञ्चार्थमेव केवलं भाषते नतु सूत्रमपि वाचयति । ननु कुतोऽयं सूत्रं न वाचयति, उच्यते, अर्थचिन्तायां ह्यस्यैकाग्रताऽर्थव्याख्यानार्थम्, यदि पुनस्सूत्रमपि वाचयेत्तदा बहुव्यग्रत्वादर्थंचिन्तायामेकाग्रता न स्यात्, एकाग्रतया ह्यर्थं चिन्तयतः सूत्रेषु सूक्ष्मार्थोन्मीलनात्सूत्रार्थस्य वृद्धिरुपजायते, तीर्थकरानुकारित्वाच्चाचार्यस्य, तीर्थकृतो हि केवलमर्थमेव भाषन्ते नतु सूत्रं नवा गणचिन्तां कुर्वन्ति तथाऽऽचार्या अपि, सूत्रवाचनां तु प्रयच्छतामाचार्याणां लाघवमप्युपजायते तस्या उपाध्यायादिभिः क्रियमाणत्वात् । तस्य किञ्चिद्गुणप्राधान्यौपाधिकं प्रभेदमाह स इति आचार्य इत्यर्थः ॥
આચાર્યના સ્વરૂપનું વર્ણન भावार्थ - "शन महिना माया२मा प्रधान, भे 'माया' ४३वाय छे. ते मायार्थ, ४४દિગાચાર્ય-શ્રતોદ્દેષ્ટા-શ્રુતસમુદેષ્ટા-આમ્નાયાWવાચકના ભેદથી પાંચ પ્રકારનો છે.” - વિવેચન – આદિ પદથી દર્શન-ચરિત્ર-તપ-વર્યોનું ગ્રહણ થાય છે. ત્યાં પ્રધાન એટલે પંચાચારને પોતે ७२ना२, ईनार, विना जो प्रधान छ.
१. चतुर्विधः सामान्येनाचार्यः, इहलोके हितो न परलोके, परलोके हितो नेहलोके, इहलोके हितोऽपि परलोके हितः नेहलोके हितो नापि परलोके हित इति । तत्र यो भक्तवस्त्रपात्रपानादिकं समस्तमपि साधूनां पूरयति न पुनस्संयमे सीदतस्सारयति स इहलोके हितोऽपि साररहितो न परलोकहितः । यश्च संयमयोगेषु प्रमाद्यतां सारणां करोति नच वस्त्रादिकं प्रयच्छति स द्वितीयः । एवमेव तृतीयचतुर्थों भाव्यौ ॥