________________
५६८
तत्त्वन्यायविभाकरे
વચનમાં પ્રવૃત્તિ “વચનસંયમ' કહેવાય છે. તથાચ પૃથિવીકાયિક આરંભ આદિ પ્રેરણારહિત, પરુષ-નિષ્ફર આદિ પરપીડાકાર પ્રયોગમાં ઉત્સુકતા વગરના, વ્રત-શીલ-દેશના આદિ પ્રધાન ફળવાળી, હિત-મિતमधुर-मनोहर, संयतने योग्य पीछे. तेन। साधारे सर्व संपामीछे..
० भनन संयमन छ- 'अभिद्रोहेति ।' सघj स्पष्ट छ.
०७५४२९१संयमाने ४४ छ - 'पुस्तकादीति ।' म १३५ ५५५ पुस्त: २३ने, दु:षमा मागिन। દોષથી, તથાવિધ, બુદ્ધિ-આયુષ્ય-શ્રદ્ધા-સંવેગ-ઉદ્યમ-બળ આદિથી હીન એવા આધુનિક શિષ્યજન ઉપર ઉપકાર માટે, પડિલેહણ-પ્રમાર્જનપૂર્વક-જયણાથી ધારણ કરનારને અજીવસંયમરૂપી બીજા નામવાળો ઉપકરણસંયમ થાય છે.
अथ वैयावृत्त्यमाख्याति -
शास्त्रोदितविधिना गौरवजनकक्रियानुष्ठानप्रवृत्तिर्वैयावृत्त्यम् । तच्चाचार्योपाध्यायतपस्विशैक्षकग्लानगणकुलसङ्घसाधुसमनोज्ञसम्बन्धित्वाद्दशविधम् ॥ २४ ॥
शास्त्रोदितिविधिनेति । आगमोक्तप्रकारेण न तु यथालोकमिति भावः, सामायिकादिक्रियानुष्ठानप्रवृत्तेर्वैयावृत्त्यरूपत्वाभावादाह गौरवजनकेति, भावतीर्थंकरनामकर्मबन्धजनकक्रियानुष्ठानप्रवृत्तिरित्यर्थः, आहारादिसाहाय्येन वैयावृत्त्येन हि तीर्थकरनामगोत्रं कर्म बध्नाति, ताश्च क्रियाः क्षेत्रवसतिप्रत्यवेक्षणं शुश्रूषणं भेषजक्रियाः कान्तारविषमदुर्गोपसर्गेषु अन्नपानादिभिः परिरक्षणमित्यादिरूपाः, तदनुष्ठाने प्रवृत्तिः परिणामविशेषः परितः सर्वतो भावेन वृत्तिः प्रवृत्तिरिति व्युत्पत्ता तल्लाभात्, न ह्यपरिणतः सर्वतो भावेन वर्तितुं शक्यः । शास्त्रोदितविधिनेत्युक्त्वात्प्रवचनवात्सल्यमपि वैयावृत्त्यस्य फलम्, तथा च महानिर्जरासनाथत्वप्रवचनवात्सल्यविचिकित्साऽभावतीर्थकरनामकर्मबन्धादयोऽस्य फलमिति सिद्धम् । आचार्यादीनां दशानां भक्तपानशय्यासनक्षेत्रोपधिप्रत्युपेक्षणभेषजदानाध्वोपग्रहशरीरोपधिस्तेनसंरक्षणदण्डग्रहग्लानशुश्रूषणमूत्रिकत्रिकढौकनरूपत्रयोदशभिः पदैर्वैयावृत्त्यं कर्त्तव्यम्, तत्राचार्यादीनाह तच्चेति, वैयावृत्त्यञ्चेत्यर्थः, दशस्वामिकत्वाद्दशविधत्वं वैयावृत्त्यस्येति भावः । अत्राचार्यपदेन तीर्थंकरोऽपि गृहीतस्तेन तीर्थंकरवैयावृत्त्याकथनप्रयुक्ता न न्यूनता, न च तीर्थकरस्त्रिलोकाधिपतिराचार्यस्तु सामान्य इति कथमाचार्यग्रहणेन स गृहीत इति वाच्यम्, पञ्चविधाचारोपदेशकत्वे सति स्वयमप्यनुष्ठातृत्वस्यैवाचार्यपदप्रवृत्तिनिमित्तत्वेन तस्य तीर्थंकरसाधारण्यात् । तीर्थंकरस्य धर्माचार्यत्वप्रसिद्धेश्च । एतेषां दशानां प्रत्येकं त्रयोदशभिः पदैवैयावृत्त्यं कर्त्तव्यमिति भावः ॥