________________
तृतीयो भाग / सूत्र - ११, प्रथमः किरणे
५५१ ० 'क्षमैवेति ।'-मात्मानी क्षमा ४ भूत-उत्तरशुरानो वर्ष असापा२९॥ धर्म छ. मावी बुद्धिथी औ५ આદિનું નિમિત્ત પ્રાપ્ત હોવા છતાં ક્ષમા રાખવી જોઈએ.
० भावी मानमानी समi अवश्यंभावी क्षमा छ. माटे ४ छ :- 'क्षमायामुपकारिकेति ।'
૦ ઉપકારથી ક્ષમા, અપકારથી ક્ષમા, વિપાકથી ક્ષમા, વચનથી ક્ષમા અને ધર્મથી ક્ષમા એમ પાંચ પ્રકારની ક્ષમા ભાવવી.
अथ मार्दवं स्वरूपयति -
गर्वपराङ्मुखस्य श्रेष्ठेष्वभ्युत्थानादिभिविनयाचरणं मार्दवम् । जातिरूपैश्वर्यकुलतपःश्रुतलाभवीर्येष्वहम्भावो मार्दवविरोधी अतस्ततो निवर्तेत ॥ ११ ॥
गर्वेति । चित्तपरिणामविशेषो गर्वस्तस्मात्पराङ्मुखस्य तद्विधुरस्य श्रेष्ठेष्वाचार्यादिषु यथायोग्यमभ्युत्थानासनादिभिविनयाचरणं नीचैर्वर्त्तनं मार्दवं मदनिग्रह इत्यर्थः । मदो हि जात्यादिप्रयुक्तोऽहम्भावो यद्विजृम्भणादेते जात्यादिमदाः प्रादुर्भवन्ति यस्य निग्रह उदयनिरोध उदितस्य वा निष्फलत्वापादनम्, तद्घाते चावश्यम्भावी मदविनाश इति भावः । मार्दवे सति हि जीवोऽनहङ्कारित्वं प्राप्नोति तेन सकलभव्यजनमनस्सन्तोषहेतुत्वात्कोमलो द्रव्यतो भावतश्च सरलो भवति तादृशस्सन्नष्टौ मदस्थानानि क्षपयतीति, तत्र मार्दवविरोधभूतान्यष्टौ मदस्थानान्याह जातीति, पितुरन्वयो जातिस्ततो विख्याततमवंशतया गर्वमुद्वहति जन्तुः, विशिष्टजात्युद्भवोऽहमिति । विदितकर्मपरिणामस्तु जातिमदं स्वकृतकर्मफलभाक्त्वाज्जीव उच्चावचनानाजातीः प्राप्नोतीश्रेयस्कारतया निरुणद्धि । लावण्ययुक्तः कायावयवानां विशिष्ट सन्निवेशो रूपम्, कश्चित्तेनापि माद्यति, कारणादिपर्यालोचनया च तेनापि मदो न कार्यः । ऐश्वर्यं धनधान्यादिकम्, तेनापि कर्मानुभावादप्राप्तेन प्राप्तेन वा संरक्ष्यमाणेन क्लेशकारिणाऽकाण्डभङ्गरेणाऽऽयतावायासबहुलेन को मद इत्येवं प्रत्याचक्षीत । मातुरन्वयः कुलम्, तेनापि जातिमदवन्न कार्यः । तपो बाह्यान्तरभेदभिन्नम्, तेन चाहमेव तपस्वीति मन्यमानः परान् परिभवति, तस्माच्चाशुभं कर्म बन्धमेति यदनेकभवपरम्परासु परिनिष्ठास्यतीति सापायमवगम्य तन्मदं प्रत्याचक्षीत । श्रुतमाप्तप्रणीत आगमः, तद्विज्ञानेनाहमेवैको विज्ञो नापर इति माद्यति तस्माच्चान्यं बालिशमेव मन्यते तच्च निजिघृक्षुरेवं विचिन्तयेत्, क्षयोपशमो हि प्रकर्षाप्रकर्षरूपो मत्तोऽन्येऽपि बहुश्रुताः सन्त्येव, अहं कदाचिदन्येभ्योऽल्पश्रुतः, आगमानामतिगहनार्थत्वात्, अधिगतश्रुतोऽपि दुरधिगततदर्थः स्यामिति श्रुतमदत्यागः श्रेयान् । लाभः प्राप्तिः, विज्ञानतपोऽभिजनशौर्याद्याधिकान्नृपतिसन्मित्रभृत्यस्वजनेभ्यो विशिष्टफलं सत्कार