________________
तृतीयो भाग / सूत्र - ८, प्रथमः किरणे
भवति, याञ्चाकाल एवावग्रहानवधारणे विपरिणतिरपि दातुश्चेतसि स्यात्, आत्मनोऽपि चादत्तपरिभोगजनितः कर्मबन्धः स्यादिति । साधुभ्यः पूर्वपरिगृहीतक्षेत्रेभ्योऽवग्रहो मासादिकालमानेन पञ्चकोशादिक्षेत्ररूपो याच्यः, तदनुज्ञानाद्धि तत्रासितव्यम्, तदनुज्ञातं हि तत्रो - पाश्रयादि समस्तं गृह्णीयात्, अन्यथा स्तेयं स्यादिति चतुर्थी । अनुज्ञया स्वीकृतान्नपानयोरभ्यवहारः, सूत्रोक्तप्रकारेण प्रासुकमेषणीयं कल्पनीयञ्च पानान्नमानीयालोचनापूर्वं गुरवे निवेद्यानुज्ञातो गुरुणा मण्डल्यामेकको वाऽश्नीयात् उपलक्षणमेतत्, यत्किञ्चिदौधिकौपग्रहिकभेदभिन्नमुपकरणं धर्मसाधनं तत्सर्वं गुरुणाऽनुज्ञातं परिभोक्तव्यम् । एवं विदधानो नातिक्रामत्यस्तेयव्रतमिति पञ्चमी । चतुर्थव्रतस्य स्त्रीपण्डपशुमद्वेश्मासनकुड्यान्तरोज्झनं, सरागस्त्रीकथात्यागः प्राग्रतस्मृतिवर्जनम्, स्त्रीणां मनोहराङ्गावलोकनस्वाङ्गसंस्कारपरिवर्जनं, प्रणीतात्यशनत्याग इति पञ्च भावनाः । देवमानुषभेदास्सचित्ताः स्त्रियः प्रस्तरलेप्यचित्रकर्मादिनिमित्ताश्चाचित्ताः नपुंसकवेदवर्त्तिनो महामोहकर्माणः पुंस्त्रीसेवनाभिरताः पण्डाः पशवः प्रसिद्धास्तत्संसक्तवसत्यासने, अन्तरस्थेऽपि कुड्यादौ यत्र मोहनादिशब्दः श्रूयते तादृशं स्थानञ्च ब्रह्मचर्यभङ्गभयेन त्याज्यमिति प्रथमा । मोहोदयानुकूलवनिताकथात्यागः, तादृशी ह रागानुबन्धिनी श्रृङ्गारानुविद्धा कथा चित्तविक्षेपकारिणीति तामवश्यं त्यजेदिति द्वितीया । प्रव्रज्याग्रहणात्पूर्वं गृहस्थावस्थानुभूतकामिनीनिधुवस्मरणस्य कामाग्निसन्दीपकत्वात्तद्वर्जनं तृतीया । अपूर्वविस्मयरसनिर्भरतयाऽऽपातरमणीयानि स्त्रियो मुखनयनस्तनजधनादीनि सप्रेम विलोकयतो निजाङ्गसंस्कारानुष्ठानपरायणस्य च ब्रह्मचर्यविघातोऽवश्यम्भावीति तत्परित्यजनं चतुर्थी । स्निग्धमधुरादिरसवत्पदार्थान् रूक्षभैक्ष्यानप्याकण्ठमभ्यवहरतो ब्रह्मक्षति: शरीरपीडा च भवतीति तद्वर्जनं पञ्चमी । पञ्चमव्रतस्य तु पञ्चानामिन्द्रियार्थानां मनोज्ञानां स्पर्शरसगन्धवर्णशब्दानां प्राप्तौ स्नेहवर्जनं, अमनोज्ञानां प्राप्तौ च द्वेषवर्जनमिति पञ्च भावनाः । अभिष्वङ्गी हि मनोज्ञानभिलषेदमनोज्ञांश्च विद्विष्यात् । मध्यस्थस्तु मूर्च्छारहितत्वान्न क्वचित्प्रीतिमप्रीतिं वा करोति । एतान्येव महाव्रतानि शेषधर्माणां मूलभूतत्वात् मूलगुणाभिधेयानि, चरणसप्ततेरपि मूलगुणभूतानि, रात्रिभोर्जनविरमणन्तु व्रतं न तु महाव्रतमिति न तस्यात्र निरूपणमिति ॥
५४३
१. चतुर्विधस्याशनपानखादिमस्वादिमभेदभिन्नस्याहारस्य सर्वथा परिवर्जनं रात्राविति रात्रिभोजनविरमणम् । समूलगुणः संयतस्यैव देशविस्तस्य तूत्तरगुणस्तपोवदाहारविमणरूपत्वात्, तप एव वा तत्, चतुर्थादिवदाहारत्यागरूपत्वात्, समित्यादिवन्महाव्रतसंरक्षणात्मकत्वादुत्तरगुणः । न चैवं व्रतधारिणोऽपि न तन्मूलगुणरूपं भव वाच्यम् । समस्तव्रतसंरक्षणेनात्यन्तोपकारित्वेन व्रतिनो मूलगुणत्वात्, अन्यथा हि मूलगुणा महाव्रतादयो न परिपूरिमतामासादयन्ति, रात्रौ भिक्षार्थमचक्षुर्विषये पर्यटनप्रसङ्गेन वह्निप्रदीपादिसंस्पर्शनात्, दुष्टाहारग्रहणादेश्च