________________
तृतीय भाग / सूत्र - ८, प्रथमः किरणे
५४१
કાયાથી કરાવતો નથી, કરનાર બીજાને મનથી-વચનથી કે કાયાથી અનુમોદતો નથી. આમ નવ પ્રકારનું બ્રહ્મચર્ય છે. આવી રીતે વૈક્રિયની અપેક્ષાએ નવ પ્રકારનું, એમ અઢાર પ્રકારનું છે.
अथ पञ्चमं व्रतमाचष्टे -
सचित्ताचित्तमिश्रेषु द्रव्येषु मूर्च्छा परिग्रहस्ततश्च तथा विरतिः पञ्चमं व्रतम् ॥८॥ सचित्तेति । मूर्च्छा लोभपरिणतिभेदः, ययाऽऽत्मा मोहमुपनीयते विवेकात्प्रच्याव्यते च, प्रच्युतविवेकश्च प्रतिविशिष्टलोभकषायोपरागादयुक्तप्रवृत्तिर्न किञ्चित्कार्यमकार्यं वा जानाति, मूर्च्छयं सर्वदोषप्रसूः, ममेदमिति सति संकल्पे हि रक्षणादयस्तस्य संजायन्ते, तत्र च हिंसाऽवश्यंभाविनी तदर्थमनृतं जल्पति चौर्यञ्चाचरति क्वचिन्मैथुने कर्मण्यपि प्र तत्प्रभवाश्च नरकादिषु दुःखप्रकारा अनुभवाः, सा च मूर्च्छा एकद्वित्रिचतुःपञ्चेन्द्रियेषु चेतनावत्सु, आभ्यन्तरेषु क्रोधमानमायालो भमिथ्यादर्शनहास्यरत्यरतिभयशोकजुगुप्सावेदाख्येषु, बाह्येषु वास्तुक्षेत्रधनधान्यशय्यासनयानकुप्यद्विचतुष्पादभाण्डाख्येषु द्रव्येषु भवति क्रोधादिषु परिग्रहहेतुत्वात्तत्प्रयुक्तस्वगौरवरक्षणाय तत्रानुरागाद्वा परेषु च ममेदमित्यज्ञानविषयत्वान्मूर्च्छा भवति । तथा च सचित्ता योषिदादयोऽचित्ता आहारादयो मिश्रा भूषणविभूषितभामिनीप्रभृतयः, एवम्भूतेषु द्रव्येषु या मूर्च्छा परिणामविशेषः स परिग्रहः । यद्यपि वातपित्तश्लेष्मणामन्यतमस्य दोषस्य प्रकोपादुपजायमानपरिणामविशेषोऽपि मूर्च्छा तथाप्यत्र सचित्तादिविषयिणी परिणतिर्ग्राह्या । प्रमादसहकारेणेत्यस्यानुवृत्त्या च रागद्वेषमोहमूला हिंसावन्मूर्च्छति लभ्यते, तेन तद्रहितस्याप्रमत्तकायमनोवाग्व्यापारस्य संयमोप्रकरणादिषूपधिशय्याहारशरीरेष्वागमानुज्ञातेषु न मूर्च्छति विज्ञेयम्, अन्यथा शरीराहारशिष्यादिपरिग्रहस्यापि मूर्च्छात्वापत्तेः धर्मोपष्टम्भकत्वस्य त्वत्रापि समानत्वात् । न च यथाऽऽध्यात्मिकेऽपि रागादावात्मपरिणामे सङ्गो मूर्च्छा तथा ज्ञानदर्शनचारित्रेषु सङ्गो मूर्च्छा स्यादिति वाच्यम्, आत्मस्वभावानतिवृत्तेः, रागादयो कर्मोदयतंत्रा इत्यनात्मस्वभावा न ज्ञानादयस्तथा, आत्मस्वभावभूतत्वात् । ततश्चेति, निरुक्तपरिग्रहादित्यर्थः, तथा विरतिरिति, सर्वप्रकारेण यावज्जीवं ज्ञान श्रद्धानपूर्विका विरतिरित्यर्थः । पञ्चविधस्यास्य महाव्रतस्य दाढर्यापादनार्थमेकैकस्य पञ्च पञ्च भावना भवन्ति, भावनाभिर्ह्यनभ्यस्यमानानि महाव्रतान्यभ्यस्यमानविद्यावन्मलीमसानि भवन्ति ।
तत्राहिंसायास्तावदीर्यासमितिर्मनस्समितिर्वचनसमितिरादानसमितिरालोकितपानभोजनमिति पञ्च भावनाः । स्वपरबाधापरिहारफलिका पुरतो युगमात्रनिरीक्षणपूर्विका सोपयोगिनो गमनविषयिणी प्रवृत्तिरीयसमितिः । गमनक्रियायामसमितो हि प्राणिनः पादेन ताडयेत्,