________________
तृतीयो भाग / सूत्र - ६-७, प्रथमः किरणे
५३९ समाधान - प्रमत्तयोगपूर्व, मेम वाथी घोष न मावे, भ४-५२५२, ४५९॥(७५यो२)वंत અપ્રમાદી જ્ઞાનીને શાસ્ત્રની દૃષ્ટિથી શબ્દ વગેરેના પ્રહણમાં પણ વિરતમાં અસ્તેયપણાની પ્રસિદ્ધિ છે. અથવા સામાન્યથી તે શબ્દ આદિ વિષય આદિનું મુક્તપણું હોવાથી સઘળું આપેલું જ છે. ખરેખર, આ વિરત આત્મા, પિહિત આદિમાં-બંધ આદિ દ્વારા આદિમાં પ્રવેશ કરતો નથી.
अथ चतुर्थं व्रतमभिदधाति ॥
औदारिकवैक्रियशरीरविलक्षणसंयोगादिजन्यविषयानुभवनमब्रह्म तस्मात्तथा विरतिस्तुर्यं व्रतम् ॥ ७॥
औदारिकेति । तिर्यङ्मनुष्याणां देवानां यच्छरीरद्वयं तस्य योऽयं विलक्षणसंयोगः स्त्रीपुंसंसर्गविशेषस्सम्पर्कः, आदिना संकल्पनामग्रहणदर्शनादीनां ग्रहणम्, तज्जन्यं यद्विषयानुभवनं तद्ब्रह्म, पञ्चशरीरेषु औदारिकवैक्रियशरीरावच्छेदेनैवाब्रह्मसम्भवो नान्यशरीरावच्छेदेनेति सूचनाय तदुक्तिः । तदिदमब्रह्म द्रव्यादितो निर्जीवप्रतिमादिद्रव्येषु सजीवपुरुषाङ्गनाशरीरेपुर्वाधस्तिर्यग्लोकेषु दिवा वा रात्रौ वा क्रोधमानमायालोभेभ्यः सम्भवति, न च चेतनस्याचेतनेन सह विलक्षणसंयोगो न मुख्यतया मैथुनसुखानुभवनहेतुरपि तूपचारत इति वाच्यम्, मुख्यफलाभावप्रसङ्गात्, मुख्यसिंहगतक्रौर्यशौर्यादेर्माणवकेऽप्रवृत्तिवत्, दृश्यते च तत्र मुख्यं फलमतो नोपचारः । आसन्नदेशस्थितभ्रातृभगिन्योः शरीरसंयोगस्याब्रह्मानुकूलत्वाभावेन तद्वयावृत्त्यै विलक्षणसंयोगेत्युक्तम्, तथा च वेदोदयप्रयुक्तविलक्षणसंयोगश्चित्तपरिणामविशेषद्वारको येन विषयसुखमनुभूयते तदब्रह्मेति फलितार्थः । ईदृशाब्रह्मणोऽब्रह्मचर्यं रौद्रं प्रमादोऽनन्तसंसारो लोकानादरोऽधर्म इहपरलोकापायो दर्शनचारित्रमोहनीयबन्धोऽनन्तप्राणिघातश्च फलम् । तथा चैवंविधादब्रह्मणो योगकरणत्रयेणाष्टादशधा ज्ञानश्रद्धानपूर्वकं विरमणं चतुर्थं व्रतमित्यर्थः । औदारिकापेक्षया स्वयं न करोति मनसा वाचा कायेन वा, नान्येन कारयति मनसा वाचा कायेन वा कुर्वन्तं वा नानुमोदते मनसा वाचा कायेन वेति नवविधः, एवं वैक्रियापेक्षयापीति ॥
१. मूलतोऽब्रह्म द्विविदमौदारिकं दिव्यञ्च, आद्यं तिर्यड्मनुष्याणामपरं भवनवास्यादीनाम् । तद्विविधमपि मनोवाक्कायैः करणकारणानुमोदनैश्च यथायथमष्टादशविधं विज्ञेयम् । तच्च देवमनुजासुरैरभिलषणीयं कलङ्कनिमितत्वेन दुर्मोचनत्वेन च पङ्कपनकपाशजालसन्निभं स्त्रोपुनपुंसकवेदचिह्न तपस्संयमब्रह्मचर्यविजकरं बहुप्रमादमूलं कुपुरुषैरासेव्यं जन्मजरामरणशोकहेतुकं दर्शनचारित्रमोहस्य निमित्तमवसेयम् । ब्रह्मचर्यन्तु उत्तमतपोनियमज्ञानदर्शनचारित्रसम्यक्त्वविनयमूलं यमनियमगुणप्रधानयुक्तं व्रतेषु प्रभाववत् प्रशस्तगम्भीरस्थिरान्तःकरणं सुखहेतुः सिद्धगतिनिलयं मुनिवरप्रतिपालितं पञ्चमहाव्रतमध्ये सुष्ठ रक्षितं प्रधानमिति ॥