________________
तत्त्वन्यायविभाकरे
સમ્યક્ચારિત્રરૂપ રત્નત્રયીથી જ મોક્ષ છે, આવા જૈનીય સિદ્ધાન્ત. પક્ષમાં સમુદિત પૂર્વોક્ત રત્નત્રયીનું જ મોક્ષ પ્રત્યે એક હેતુત્વ પર્યાપ્ત છે.)
नन्वेषु नयेषु सर्वेषां समानविषयत्वमुत न्यूनाधिकविषयत्वं वेत्यत्र शुद्धाशुद्धत्वाभिप्रायत
४६२
आह
-
नैगमो भावाभावविषयकः सङ्ग्रहस्सर्वभावविषयकः, व्यवहारः कालत्रयवृत्तिकतिपयभावप्रकारप्रख्यापकः, वर्त्तमानक्षणमात्रस्थायिपदार्थविषय ऋजुसूत्र:, कालादिभेदेन भिन्नार्थविषयश्शब्दनयः, व्युत्पत्तिभेदेन पर्यायशब्दानां भिन्नार्थतासमर्थनपरस्समभिरूढः, क्रियाभेदेन विभिन्नार्थतानिरूपणपर एवम्भूतनय इत्युत्तरोत्तरनयापेक्षया पूर्वपूर्वनयस्य महाविषयत्वं बोध्यम् ॥ १६ ॥
नैगम इति । भावाभावभूमिकत्वात्सङ्ग्रहापेक्षया नैगमो बहुविषय इति भावः, सद्विशेषप्रकाशकव्यवहारापेक्षया समस्तसत्समूहोपदर्शकस्य सङ्ग्रहस्य बहुविषयत्वमित्याह सङ्ग्रह इति । वर्त्तमानविषयावलम्बिन ऋजुसूत्रात्कालत्रयवत्त्यर्थजातावलम्बिनो व्यवहारस्य बहुविषयत्वमित्याह व्यवहार इति, कालादिभेदेन भिन्नार्थोपदेशकशब्दापेक्षया तद्विपरीतवेदकः ऋजुसूत्रो भूमविषय इत्यत्राह वर्त्तमानेति, न केवलं कालादिभेदेनैवर्जुसूत्रादल्पार्थता शब्दस्य, किन्तु नामादितोऽपि, शब्दो हि नामस्थापनाद्रव्यभावरूपचतुर्विधनिक्षेपेषु भावघटमेव व्यवहर्त्तव्यं मन्यते शब्दार्थप्रधानतया तस्यैव जलाहरणादिक्रियाक्षमत्वात्, यद्वा सप्तधर्मार्पणादस्य विशेषः, ऋजुसूत्रस्य हि प्रत्युत्पन्नोऽविशेषित एव घटोऽभिप्रेतः, शब्दनयस्तु सद्भावासद्भावादिभिरर्पितस्य स्याद्भटः स्यादघटः, स्यादवक्तव्यः स्यात् संश्चासंश्चोभयं स्यात्सन्न वक्तव्यः, स्यादसन्नवक्तव्यः, स्यात्सन्नसन्नवक्तव्य इति स्याद्वाददृष्टभेदं घटादिकमर्थं यथाविवक्षितमेकेन केनापि भङ्गकेन विशेषिततरं प्रतिपद्यते नयत्वादिति विशेषः । प्रतिपर्यायशब्दमर्थभेदमभीप्सतस्समभिरूढाच्छब्दो बहुविषय इत्याह कालादीति आदिना कारक लिङ्गादीनां परिग्रहः । प्रतिक्रियं विभिन्नमर्थं प्रतिजानानादेवम्भूतात्समभिरूढस्तदन्यथार्थस्थापकत्वाद् बहुविषय इत्याह व्युत्पत्तिभेदेनेति, एवम्भूतविषयं दर्शयन्निगमयति क्रियाभेदेनेति ॥
१. ऊर्ध्वग्रीवकपालकुक्षिबुध्नादिभिः स्वपर्यायैस्सद्भावेनार्पितश्चेत् स्याद्घटः, पटादिगतैः परपर्यायैरसद्भावेनार्पितः स्यादघटो भवति । स्वपरोभयपर्यायैः सदसद्भावाभ्यामर्पितो युगपद्वक्तुमिष्टश्चेदवक्तव्यो भवतीत्येवं बोध्यः ॥