________________
द्वितीयो भाग / सूत्र - १५, नवमः किरणे
४५७ प्रच्युतिप्रसङ्गात्, न ह्यध्यक्षगोचरेऽर्थे शब्दास्सन्ति, तदात्मानो वा, येन तस्मिन् प्रतिभासमानेऽपि नियमेन ते प्रतिभासेरन् इति कथं शब्दसंस्पृष्टाऽक्षधीभवेत् किञ्च वस्तुसन्निधानेऽपि तन्नामानुस्मृति विना तदर्थस्यानुपलब्धाविष्यमाणायामर्थसन्निधिरक्षदृग्जननं प्रत्यसमर्थ इत्यभिधानस्मृतावुपक्षीणशक्तिकत्वान्न कदाचनापीन्द्रियबुद्धिं जनयेत् सन्निधानाविशेषात्, यदि चायं भवतां निर्बन्धस्स्वाभिधानविशेषणापेक्षमेव चक्षुरादिस्स्वार्थमवगमयतीति तदाऽस्तङ्गतेयमिन्द्रियप्रभवाऽर्थाधिगतिः, तन्नामस्मृत्यादेरसंभवात्, तथाहि यत्रार्थे प्राक् शब्दप्रतिपत्तिरभूत् पुनस्तदर्थवीक्षणे तत्सङ्केतितशब्दस्मृतिर्भवेदिति युक्तियुक्तमन्यथाऽतिप्रसङ्गः स्यात्, न चेदनभिलापमर्थं प्रतिपत्ता पश्यति तदा तत्र दृष्टमभिलापमपि न स्मरेत्, अस्मरंश्च शब्दविशेषं न तत्र योजयेत्, अयोजयंश्च न तेन विशिष्टमर्थं प्रत्येतीत्यायातमान्ध्यमशेषस्य जगतः । ततः स्वाभिधानरहितस्य विषयस्य विषयिणं चक्षुरादिप्रत्ययं प्रति स्वत एवोपयोगित्वं सिद्धम्, न तु तदभिधानानां तदर्थसम्बन्धरहितानां, पारम्पर्येणापि सामर्थ्यासम्भवादिति । शब्दनयस्तु मनुते कारणस्यापि विषयस्य प्रतिपत्तिं प्रति नैव प्रमेयत्वं युक्तम् यावदध्यवसायो न भवेत्, सोऽप्यध्यवसायो विकल्पश्चेत् तदभिधानस्मृति विना नोत्पुत्तुं युक्त इति सर्वव्यवहारेषु शब्दसम्बन्धः प्रधानं निबन्धनम् । प्रत्यक्षस्यापि तत्कृताध्यवसायलक्षणविकलस्य बहिरन्तर्वा प्रतिक्षणपरिणामप्रति पत्ताविव प्रमाणतानुपपत्तेः अविसंवादलक्षणत्वात्प्रमाणानाम् । प्रतिक्षणपरिणामग्रहणेऽपि तस्य प्रामाण्याभ्युपगमे प्रमाणान्तरप्रवृत्तौ यत्नः क्रियमाणोऽपार्थकः स्यात् । ततः प्रमाणव्यवस्थानिबन्धनं तन्नामस्मृतिव्यवसाययोजनमर्थप्राधान्यमपहस्तयतीति शब्द एव सर्वत्र प्रमाणादिव्यवहारे प्रधानं कारणमिति । ननु नैगमादिनयसप्तकस्यैव प्ररूपणमयुक्तं तदतिरिक्त योरर्पितानर्पितयोनिश्चयव्यवहारयोर्ज्ञानक्रिययोश्च सत्त्वादिति चेन्मैवम्, अर्पितनयस्य विशेषग्राहित्वेनानर्पितनयस्य च सामान्यग्राहित्वेनोक्तेष्वेवान्तर्भावात्, तत्रानर्पितनयमते तुल्यमेव रूपं सर्वेषां सिद्धानाम् । अर्पितनयमते त्वेकद्वित्र्यादिसमयसिद्धाः स्वसमानकालसिद्धैरेव तुल्या इति। तथा लोकप्रसिद्धार्थानुवादपरस्य व्यवहारनयस्य तात्त्विकार्थाभ्युपगमपरस्य निश्चयनयस्यापि उक्तेष्वेवान्तर्भावः । यथा पञ्चस्वपि वर्णेषु भ्रमरे सत्सु श्यामो भ्रमर इति व्यवहारः, पञ्चवर्णो भ्रमर इति निश्चयः, तच्छरीरस्य बादरस्कन्धत्वेन पञ्चवर्णपुद्गलैर्निष्पन्नत्वात्, शुक्लादीनाञ्च न्यम्भूतत्वेनानुपलक्षणात् । अथवैकनयमतार्थग्राही व्यवहारः सर्वनयमतार्थग्राही च निश्चयः । न चैवं निश्चयस्य प्रमाणत्वेन नयत्वव्याघातः, सर्वनयमतस्यापि स्वार्थस्य तेन प्राधान्याभ्युपगमात् । तथा ज्ञानमात्रप्राधान्याभ्युपगमपरा ज्ञाननयाः, क्रियामात्रप्राधान्याभ्युप