________________
द्वितीयो भाग / सूत्र - १०, नवमः किरणे
४३९ द्रव्यमिति, ऋजु-अवर्क सूत्रयति गमयत्यभ्युपगच्छतीति ऋजुसूत्रः अतीतानागतयोः पर्याययोर्विनाशानुत्पत्तिभ्यामभावेन तदभ्युपगमे कुटिलत्वं ततस्तत्परिहारेण परोपकारप्रवणवार्त्तमानिकपर्यायप्ररूपणमेवाकुटिलं प्ररूपणमिति ऋजुसूत्रशब्दभावः, तदेवाह द्रव्यं गौणीकृत्येति नयत्वरक्षायै विशेषणमिदम्, अस्य मते भावत्वं वर्तमानत्वव्याप्यम्, तथाहि विनष्टत्वादतीतस्यानागतस्यालब्धात्मलाभत्वात् अविशिष्यमाणतया च सकलशक्तिविकलरूपत्वात् अर्थक्रियानिवर्त्तनाक्षमत्वेनावस्तुत्वाच्च, वर्तमानक्षणालिङ्गितस्यैव सकलार्थक्रियासु व्याप्रियमाणत्वेन तदेव पारमार्थिकं वस्त्विति, तथा च शब्दाद्यभिमतविशेषापक्षपातिवर्तमानत्वमात्रव्याप्तभावविषयकाभिप्रायः ऋजुसूत्र इति भावार्थः । शब्दादिनयेषु व्यभिचारवारणाय शब्दाद्यभिमतविशेषापक्षपातीति पदम् । अत्र द्रव्यस्य गौणत्वं वर्तमानपर्यायस्य प्राधान्यञ्च, तत्रैव संकेतार्थक्रियादिसंभवात्, एकावस्थापन्ने द्रव्ये भिन्नावस्थासम्बन्धासम्भवात्, विभिन्नकालिक पर्यायद्वयाधारपदार्थाभावाच्च, सिद्धावस्थासाध्यावस्थयोरेकत्र विरोधात्, यथा पलालं न दहति वह्निः, घटो न भिद्यते, असंयतो न प्रव्रजति, असिद्धो भव्यो न सिद्ध्यतीत्यादौ दहनादिक्रियाकाल एव तन्निष्ठाकालः, अतस्तदवस्थाविलक्षणपलालाद्यवस्थावता समं दहनादिक्रियान्वयो न युज्यते दह्यमानादेर्दग्धत्वद्यव्यभिचारात् । अत एवैते निषेधात्मका व्यवहारा उपपद्यन्ते, विधिरूपास्तु अपलालं दह्यते, अघटो भिद्यते, संयतः प्रव्रजति, सिद्धस्सिद्ध्यतीत्वेवंरूपाः । न चात्र नये कृतकरणापरिसमाप्तिर्दोषः स्यात् सिद्धस्यापि साध्यमानत्वेन करणव्यापारानुपरमादिति वाच्यम्, उत्पाद्य कार्य क्रियोपरमेण तत्समाप्तेः । न च यादृशव्यापारावच्छिन्नदण्डादेर्घटोत्पत्त्यव्यवहितपूर्ववृत्तित्वं तादृशव्यापारावच्छिन्नस्य तस्य तदुत्पत्त्यनन्तरमपि सत्त्वे तदुत्पत्तिप्रसङ्ग इति वाच्यम्, तदानीं सूक्ष्मक्रियाविरहकल्पनात्, न च घटोत्पत्तेः पूर्वं तत्क्रियायाः सत्त्वे तदापि तदुत्पत्तिप्रसङ्गः असत्त्वे च कार्याव्यवहितपूर्ववृत्तित्वाभावेन कारणत्वाभावप्रसङ्ग इति वाच्यम्, कार्यव्याप्यतावच्छेदकपरिणामविशेषरूपायाः कारणतायाः कार्यसहवृत्तितानियमात्, ननु यदि क्रियमाणः कृत एव चक्रभ्रम्याधुपलक्षितदीर्घक्रियाकाले कुतो न घटो दृश्यत इति चेन्न, घटानुकूलव्यापारलक्षणक्रियाया दीर्घकालत्वासिद्धेः चरमसमय एव तदभ्युपगमात्, घटविषयकोत्कृष्टाभिलाषेणैव मृन्मर्दनाद्यान्तरालिककार्यकरणवेलायां घटं
१. यथा हि व्यवहारनयो व्यवहाराननुकूलत्वान्न सहते सामान्यं तथा ऋजुसूत्रनयोऽपि अतीतमनागतञ्च पर्याय परकीयत्वान्न सहते, अभिधानमपि तथाविधार्थवाचकं ज्ञानमपि तथाविधार्थविषयं न सहते स्वदेशकालयोरेव सत्ताविश्रामात् तथा च यद्वर्तमानकालीनं वस्तु यच्च तस्यात्मीयं रूपं तदेतदुभयमेवास्य नयस्याभिमतमिति भावः ॥ २. घटोत्पत्त्यनुकूलसूक्ष्मक्रियाविरहकल्पनादित्यर्थः ॥