________________
४३६
तत्त्वन्यायविभाकरे
गिरिस्थतृणादौ लक्षणा, अतिशयदग्धत्वप्रतीतिः फलं द्वितीये मार्गगन्तृपुरुषसमुदाये लक्षणा नैरन्तर्यप्रतीतिः फलं, तृतीये कुण्डिकास्थोदके लक्षणाऽनिबिडत्वप्रतीतिः प्रयोजनमित्येवं भाव्यम् । लक्ष्यार्थे मुख्यार्थप्रतीतिश्चाभेदाध्यवसायात् । विशेषप्राधान्यादेवायं विस्तृतार्थः, प्रधानता च व्यक्तिंष्वेवोपयुक्ततया सङ्केताद्याश्रयणात् । वस्तुतः पञ्चवर्णद्विगन्धपञ्चरसाष्टस्पर्शशरीरवतो भ्रमरादेश्श्यामत्वादिनैव निश्चयनादसौ लौकिकः, लोकैः कृष्णवर्णत्वेनैवास्याङ्गीकारात्, उद्भूतवर्णविवक्षयैवाभिलापादिव्यवहारप्रवृत्तेः कृष्णो भ्रमर इत्यादेरनुद्भूतत्वेनेतरवर्णाविवक्षणान्न भ्रान्तत्वम्, तात्पर्यज्ञं प्रति प्रामाण्याल्लोकव्यवहारानुकूलविवक्षाप्रयुक्तत्वाच्चास्य भावसत्यत्वं, पीतो भ्रमर इत्यादीनान्तु न तथा, लोकव्यवहारानुकूलत्वात् नापि निश्चयतोऽस्य भावसत्यत्वं पञ्चवर्णपर्याप्तिमति पञ्चवर्णप्रकारकत्वाभावेनावधारणाक्षमत्वात् । ननु पञ्चवर्णो भ्रमर इत्यादिवाक्यानां कथं न व्यवहारनयानुरोधित्वं तस्यापि व्यवहारानुगुण्यात्, आगमप्रतिपादितार्थेऽपि व्युत्पन्नानां व्यवहारोपलब्धेः न च लोकेनास्य वाक्यस्य बाधितार्थविषयकत्वेन न व्यवहारानुरोधित्वमिति वाच्यम् आत्मा न रूपवानित्यादिवाक्यस्यापि अव्यवहारकत्वापत्तेः, आत्मगौरत्वादिबोधकलोकप्रमाणबाधितार्थबोधकत्वात्, अभ्रान्तलोकस्य विवक्षणे चोभयत्र साम्यमेवेति चेन्न पञ्चवर्णो भ्रमर इत्यादौ कृष्णेतरवर्णांशे व्यावहारिकविषयताया अभावात्, तत्तन्नयाभिप्रायप्रयुक्तो हि शब्दः, तत्र तन्नयीयविषयतैव शाब्दबोधिका, ततो नोक्तव्यवहार इति ॥
શ્રી વાદિદેવસૂરિસૂત્રના અવલંબને વ્યવહારનયનું લક્ષણ
ભાવાર્થ – “પ્રતિષેધના પરિહારપૂર્વક સંગ્રહના વિષયીભૂત અર્થના વિષયવાળા વિભાગનો પ્રયોજક અભિપ્રાય, એ ‘વ્યવહારનય' છે. જેમ કે-સત્ત્વધર્મદ્વારા એકપણાએ સંગૃહિત સત્નો દ્રવ્ય અને પર્યાયથી વિભાગ કરનારો અભિપ્રાય જે સત્ છે, તે દ્રવ્ય અને પર્યાયરૂપ બે પ્રકારે છે. આ પ્રમાણે દ્રવ્યપણાએ સંગૃહિત દ્રવ્યનો ધર્મ આદિ છ પ્રકારના વિભાગ કરનારો અભિપ્રાય જે દ્રવ્ય છે, તે ધર્માદિરૂપે છ प्रारनुं छे. इति.
१. ननु गिरिस्थतृणादिमार्गगन्तृपुरुषसमुदायकुण्डिकास्थजलादौ गिरिमार्गकुण्डिकादिमुख्यार्थप्रतीतिः कथमित्यत्राह लक्ष्यार्थ इति ॥ २. एवशब्देन सामान्यस्य संकेतजप्रतीत्यविषयत्वं सूचितम् शब्दानां हि सामान्ये संकेतोऽनुपयुक्तः, घटमानयेत्वादिवाक्यात् शाब्दबोधानुत्पत्तिप्रसङ्गात् नहि घटत्वस्यानयनं सम्भवति, अमूर्त्तत्वादिति भावः ॥ ३. तत्तन्नयाभिप्रायप्रयुक्तो हि शब्दः तथा च पञ्चवर्णो भ्रमर इति शब्दाभिलापो निश्चयनयेन, अतः प्रोक्ताभिलापजन्यशाब्दबोधे कृष्णेतररूपांशे न व्यावहारिकी विषयताऽस्ति लोकव्यवहाराननुगुणत्वात् किन्तु तत्र नैश्चयिक विषयतैव कृष्णांशे तूभयविषयतेति भावः ॥