________________
४२८
तत्त्वन्यायविभाकरे
૦ વળી આ નૈગમનય, સત્તાલક્ષણવાળા મહાસામાન્યને, (પરસામાન્યને) દ્રવ્યત્વ વગેરે અવાન્તરસામાન્યને, (અપરસામાન્યને) સકળ અસાધારણરૂપ લક્ષણવાળા અન્ય(અંતિમ) વિશેષોને, અપેક્ષાથી પરરૂપથી વ્યાવૃત્તિમાં સમર્થ, સામાન્યથી અત્યંત તિરસ્કૃત સ્વરૂપવાળા અવાન્તરવિશેષોને માને છે. (સત્તારૂપ સામાન્ય, ગૌત્વ આદિ સામાન્ય-વિશેષ ઉભયસ્વરૂપી અવાજોરસામાન્ય, નિત્ય દ્રવ્યવૃત્તિ અંત્યસ્વરૂપવાળા, વ્યાવૃત્તિ આકારબુદ્ધિના કારણરૂપ વિશેષો (કે જે પણ અપેક્ષાનુસાર સામાન્ય છે), તેને પ્રહણ કરનારા અનેક જ્ઞાનોવડે જે વસ્તુને સ્વીકારે છે, તે નૈગમનય છે.)
૦ ક્રમથી આનું ઉદાહરણ. વ્યંજન-પર્યાયરૂપ બંનેની ગૌણ-મુખ્યભાવથી વિવક્ષામાં આ ઉદાહરણ છે. ठेभ पर्वतमा पर्वतीयवलि.la Getsोनेछ :- एव'मिति । मह शान प्रधान छ, भ-विशेष्य छ. अनित्यत्व मप्रधान छे, म -विशेष छ, ३५ प्रधान छ, म -विशेष्य छ. नीलता प्रधान छ, કેમ કે-વિશેષણ છે. આવી રીતે ક્રમથી ગૌણ-મુખ્યભાવ જાણવો.
धर्मिद्वयविषयकमुदाहरति -
काठिन्यवद्रव्यं पृथिवीत्यादौ पृथिवीरूपमिणो विशेष्यत्वान्मुख्यत्वं काठिन्यवद्रव्यस्य विशेषणत्वाद्गौणत्वम् यद्वा काठिन्यवद्र्व्यस्य विशेष्यत्वान्मुख्यता, पृथिव्या विशेषणत्वाद्गौणता । एवं रूपवद्रव्यं मूर्त, पर्यायवद्रव्यं वस्त्वित्यादीनि धर्मिद्वयविषयकविवक्षणे उदाहरणानि ॥ ६ ॥
काठिन्यवदिति । द्रव्ययोर्मुख्यामुख्यभावेन विवक्षणे उदाहरणमिदम्, तत्सङ्गमयति, पृथिवीति, विशेष्यविशेषणभावे विनिगमनाविरहेण काठिन्यवद्रव्यं पृथिव्यास्त इति विवक्षायां गौणमुख्यभावः प्रतिपादितः, यदा तु पृथिवी काठिन्यवद्रव्यं वर्तत इति विवक्ष्यते तदाह यद्वेति, अपरमुदाहरणमाहैवमिति, रूपवद्रव्यं मूर्तं वर्तत इति विवक्षणे मूर्तं प्रधानं विशेष्यत्वात् रूपवद्रव्यं गौणः विशेषणत्वात् मूर्त रूपवद्रव्यं वर्तत इति विवक्षायान्तु रूपवद्रव्यं विशेष्यत्वात्प्रधानं, मूर्तमप्रधानं विशेषणत्वादिति, पर्यायवद्रव्यं वस्त्विति विवक्षायां वस्तुनो विशेष्यत्वान्मुख्यता, पर्यायवद्र्व्यस्य विशेषणत्वाद्गौणता, वस्तु पर्यायवद्र्व्यमित्यत्र तु वस्तुनो विशेषणत्वाद्गौणता, पर्यायवद्र्व्यस्य च विशेष्यत्वात्प्रधानता बोध्येति भावः ॥
१. नयेऽत्र हि प्रधानोपसर्जनभावस्य विशेष्यविशेषणभावप्रयुक्तत्वं न तु कल्पनाप्रयुक्तत्वं, न चैतावता प्रामाण्यप्रसङ्गः, धर्मधर्मिणोः प्राधान्येनाबोधकत्वात्, नैगमो हि तयोरन्यतरस्यैव प्रधानत्वमभ्युपैति । प्रधानतया तु तदुभयात्मकं वस्त्वनुभवद्विज्ञानं प्रमाणमेव, न चात्र नये विशेषणं कल्पितमेवेति वाच्यम्, पर्यायार्थिक एव द्रव्यस्य कल्पितस्य विशेषणत्वात् द्रव्याथिके तु पर्यायस्याकल्पितस्यापि विशेषणत्वात्, उभयविषयकेण नैगमेनोभयविषयस्य सत्यताया एवाभिमानादिति ॥