________________
द्वितीयो भाग / सूत्र - १, अथाष्टमः किरणे
३७९ शब्दरहितनीलादिपदार्थसामर्थ्येनोत्पत्त्या तद्रूपप्रतिभासित्वमेव तस्योचितं नत्वभिलापप्रतिभासित्वमपीति वाच्यम्, असत्यभिलापप्रतिभासित्वे निश्चयस्वभावत्वासम्भवात्, निःशब्दकार्थजनितत्वमात्रेण शब्दं विना कृत्यस्याभिधानासम्भवाच्च, न च नीलादिपदार्थे सत्युपयोगेऽपि यदीन्द्रियजं ज्ञानमर्थं न परिच्छिन्द्यात् किन्तु स्मृतिसामर्थ्यजन्यतदर्थप्रतिपादकशब्दसंघटनं यावत्प्रतीक्षेत तदार्थग्रहणाय दत्ताञ्जलिस्स्यात्, नीलादिकं ह्यर्थमनीक्षमाणो न तत्र गृहीतसङ्केतं शब्दं स्मरत्युपयोगाभावात्, अननुस्मरन्न तं पुरोवर्तिनि पदार्थे घटयति स्मरणमन्तरेण संघटनासम्भवात् असंघटयंश्च त्वदृष्ट्या न निरीक्ष्यत एवार्थमिति सुषुप्तप्रायं जगद्भवेदिति वाच्यम्, भवत्पक्षेऽप्यस्य दोषस्य तुल्यत्वात्, उत्पन्नेऽपि हि निर्विकल्पके प्रत्यक्षे विधिनिषेधद्वारा विकल्पद्वयं यावन्न भवेत् तावदिदं नीलं नेदं पीतमितीदन्तयाऽनिदन्तया नियतार्थव्यवस्था न स्यात् 'यत्रैव जनयेदेनां तत्रैवास्य प्रमाणते' ति त्वद्वचनात् । तद्व्यवस्थापकञ्च विकल्पयुगलमेव तच्च शब्दयोजनासहितमिति त्वदुक्तरीत्या जगत्सुषुप्तप्रायं स्यादिति । प्रत्यक्षस्य सविकल्पकत्वे शब्दसंपृक्तमेव स्यात्तथा च शब्दाद्वैतमतप्रवेशइति न च वाच्यम्, स्वत एव तस्य व्यवसायात्मकत्वात् न पुनः शब्दसंपर्कापेक्षया, तदपेक्षायां वर्णपदव्यवसायासम्भवात् तद्व्यवसाये परस्य शब्दस्यावश्यकतायामनवस्थापत्तेरिति ॥
આરોપનિરૂપણ નામક અષ્ટમ કિરણ શંકા – યથાર્થ જ્ઞાનને પ્રમાણનું લક્ષણ નહિ કહીને, યથાર્થ નિર્ણયને પ્રમાણનું લક્ષણ કેમ કહ્યું? समाधान - 'प्रभा निश्चयात्म ४ 2, 34 3-५(संशया)न विरोधी छ.
વિવેચન – નિશ્ચયાત્મક જ પ્રમાણ છે. અહીં નિશ્ચય આત્મકમાં જકારદ્વારા નિરાકારરૂપ દર્શનમાં પ્રમાણપણાનો વ્યવચ્છેદ કરેલો છે. ખરેખર, આરોપ સંશયાદિરૂપ હોઈ વસ્તુના તથાભાવનો ગ્રાહક નથી અને વસ્તુતથાભાવનું ગ્રાહક નિશ્ચય આત્મક જ જ્ઞાન થવાને યોગ્ય છે. આ પ્રમાણે નિશ્ચય આત્મતત્વ વ્યાપક છે (સાધ્ય છે) અને વસ્તુતથાભાવ ગ્રાહકત્વ વ્યાપ્ય છે (હેતુ છે). વસ્તુતથાભાવ ગ્રાહકજ્ઞાન પ્રમાણપક્ષ કહેવાય છે. એથી તે પ્રમાણને નિશ્ચયાત્મક થવું જોઈએ. વળી દર્શન વસ્તુતથાભાવ ગ્રાહક નથી,
१. इदमस्य नामेति गृहीतसंकेतमित्यर्थः, तदस्मरणे च इदमेतत्पदवाच्यमिति तेन नाम्ना तद्वाच्यं न योजयितुमीष्टे इत्याहाननुस्मरन्निति, न निरीक्ष्यत इति, तदेतदितिशब्देन नाभिलपितुं शक्नोतीत्यर्थः ॥ २. क्षणिकवादिमते नामजात्यादियोजनं विकल्पे कथमपि नोपपद्यते, दीर्घकालिकत्वात्तदुपयोगस्येत्यपिबोध्यम् ॥ ३. अन्यथा दृश्यस्य दर्शनेन पूर्वानुभूतनीलादिज्ञाननामविशेषयोः सह स्मरणेन प्रकृते नामयोजनासंभवस्य वक्तव्यतया सह स्मतिदयस्वीकारापत्तिः स्यात अत एव वर्णपदानां क्रमिकाणां क्रमेणैवाध्यवसायेन यगपदध्यवसानासंभवः, कथञ्चिदध्यवसाये वा नाम्नो नामान्तरेण विना स्मृत्यसंभवेन तदावश्यकतायां भवत्यनवस्थेति
भावः॥