________________
३७०
तत्त्वन्यायविभाकरे
ननु सुखज्ञानादीनां गुणत्वं सुखदुःखादीनां पर्यायत्वमिति कथं ? पर्यायगुणयोरभेदादि
त्यत्राह
अत्र य एव सुखादयो गुणास्त एव पर्याया इति कथं भेद इति नो वाच्यम्, कालभेदेन भेदस्यानुभवात् ॥ ९ ॥
अत्रेति । कालभेदस्यानुभूयमानत्वेन तदपेक्षयैव भेदो न सर्वथेति भावः ॥
ગુણ પર્યાયના ભેદ
शंडी – सुभ-ज्ञान आहिनुं गुशत्व, सुख-हुः खाहिनुं पर्यायपशु, खेम देवी रीते ? प्रेम -पर्याय अने ગુણનો અભેદ છે ને ?
સમાધાન – આના જવાબમાં કહે છે કે
ભાવાર્થ – “અહીં જે સુખ આદિ ગુણો જ છે અને તે જ પર્યાયો છે, તો ભેદ કેવી રીતે ?” એવું નહીં બોલવું, કેમ કે-કાળના ભેદથી ગુણપર્યાયના ભેદનો અનુભવ છે.
વિવેચન – કાળનો ભેદ અનુભવાતો હોઈ તે કાળભેદની અપેક્ષાએ જ ગુણપર્યાયમાં ભેદ છે, સર્વથા लेह नथी.
तदेवं प्रमाणस्य परिच्छेद्ये समासत आदर्शिते किमीदृशस्य प्रमाणस्य फलमिति जिज्ञासायामाह -
प्रमाणजन्यं फलं द्विविधमनन्तरं परम्परमिति । अज्ञाननिवृत्तिरनन्तरफलम्, केवलिनामपि प्रतिक्षणमशेषार्थविषयाज्ञाननिवृत्तिरूपपरिणतिरस्त्येव, अन्यथा द्वितीयादिसमये तदनभ्युपगमेऽज्ञत्वप्रसङ्गः ॥ १० ॥
प्रमाणजन्यमिति । अनन्तरमिति, अन्तररहितमव्यवहितं फलमित्यर्थः । परम्परमिति, व्यवहितं फलमित्यर्थः, अनन्तरं फलं प्रमाणानां दर्शयति अज्ञाननिवृत्तिरिति, प्रमाणप्रवृत्तिपूर्वकालीनं प्रमातृविवक्षितविषयकं यदज्ञानं तस्य निवृत्तिरव्यवहितं फलं अज्ञानमुद्दलयतामेव प्रमाणानां प्रवृत्तिरज्ञानस्य सर्वानर्थमूलतया प्रमात्रापकारित्वात्तन्निवर्त्तनस्य प्रयोजनता युक्तैव, एतच्चाव्यवहितं फलं सर्वज्ञानानामेकरूपत्वात् सामान्येनोक्तमिति भावः, एतदुपलक्ष-कमर्थप्रकाशस्य, तस्याप्यव्यवहितफलत्वात् प्रमातॄणां सर्वेषामर्थार्थित्वादर्थप्रकाशस्य फलत्वौचित्त्यात् । ननु प्रमाणस्याप्यर्थसंवेदनरूपत्वेन तस्यैव प्रमाणस्य फलत्वेनोक्तिः पर्यवसिता, किमतः ? प्रमाणफलयोरभेदः स्यात्, ततोऽपि किं ? असत: कारणत्वस्य सतश्च फलत्वस्य प्रसङ्गः स्यादिति चेन्मैवम्, जन्मन्येवास्य दोषत्वाद् व्यवस्थायामदोषात् कर्मोन्मुखज्ञान