________________
३६२
तत्त्वन्यायविभाकरे
શંકા- દ્રવ્યના ગ્રહણમાં તે દ્રવ્યથી અભિન્ન હોઈ, અતીત આદિ અવસ્થાઓના અધ્યવસાય(જ્ઞાન)ની આપત્તિ આવશે ને?
સમાધાન - અભિન્નતાના ગ્રહણ પ્રત્યે અતીત આદિ અવસ્થાઓ અંગભૂત નથી. જ્યાં જ આત્માના અજ્ઞાન પર્યાયરૂપ પ્રતિબંધકનો અભાવ છે, ત્યાં જ અધ્યવસાય(નિશ્ચય)નો નિયમ છે. ખરેખર, આત્મા, પ્રત્યક્ષના સહાયવાળો, અનંતર અતીત-અનાગત પર્યાયમાં એકત્વને સ્મરણ એ પ્રત્યભિજ્ઞાનની સહાયવાળો, વ્યવહિત (અતીત-અનાગત) પર્યાયમાં એકત્વને જાણે છે, માટે કોઈ પણ અનુપપત્તિ નથી.
अधुना विशेषं विभजते -
विशेषोऽपि द्विविधो गुणः पर्यायश्चेति । सहभावी गुणः, यथाऽऽत्मन उपयोगादयः, पुद्गलस्य ग्रहणगुणः, धर्मास्तिकायादीनाञ्च गतिहेतुत्वादयः ॥७॥
विशेष इति । यथा सामान्यं द्विविधं तथा विशेषोऽपीत्यर्थः कथं द्वैविध्यमित्यत्राह गुण इति, यद्यपि पर्यायशब्दो विशेषमात्रवाचकस्तथापि सहवर्तिविशेषवाचिगुणशब्दसन्निधानेन क्रमवर्त्तिविशेषवाचक एवेति बोध्यम् । तत्र गुणं लक्षयति सहेति, अभिन्नकालवर्तिविशेषो गुण इति भावः, दृष्टान्तमाह यथेति उपयुज्यते वस्तुपरिच्छेदं प्रति व्यापार्यते जीवोऽनेनेत्युपयोगः, सचेतनेऽचेतने वा वस्तुनि जीवो यदोपयुञ्जानस्सपर्यायं सामान्यतया वा वस्तु परिच्छिनत्ति तदा तादृशपरिणाम उपयोग उच्यते, स च परस्परसव्यपेक्षसामान्यविशेषग्रहणप्रवृत्तदर्शनज्ञानस्वरूपद्वयात्मको यदा तदा प्रमाणमन्यथाऽप्रमाणं निरपेक्षनिरस्तेतराकारत्वात् । सर्वजीववर्तित्वादस्य सहभावित्वेन गुणत्वं बोध्यम् । आदिना सुखपरिस्पन्दयौवनादयश्च गृह्यन्ते, अजीवस्य तान्वक्तुमाह पुद्गलस्येति, ग्रहणगुण इति, ग्रहणरूपो गुणः, औदारिकशरीरादितया ग्रहणरूपो वर्णादित्वाद्गाह्यतारूप: परस्परसम्बन्धरूपो वा धर्मः ग्रहणगुण उच्यते । गतिहेतुत्वादय इति, जीवपुद्गलयोर्देशान्तरगतिपरिणतयोरुपकारकत्वं धर्मास्तिकायस्य गुण इत्यर्थः, आदिना स्थितिहेतुत्वावकाशदातृत्वादयोऽधर्माकाशादीनां गुणा ग्राह्याः । एते हि यदैव द्रव्यमुत्पद्यते तदैव समवेतास्तेन द्रव्येण गुणा उत्पद्यन्ते पौर्वापर्यभाव एव नास्ति, गुणगुणिनोः समानसामग्रीकत्वात् सव्येतरविषाणवत्, अनादिनिधनानां द्रव्यगुणानामुत्पत्तिदर्शनं व्यवहारतः कृष्णादिघटवत् । अत्रेदं बोध्यं जीवस्यास्तित्ववस्तुत्वद्रव्यत्वप्रमेयत्वागुरुलघुत्वस्वाश्रयक्षेत्रा
१. उपचारवर्जिताः स्वीयस्वभावा एव गुणाः, गुणा हि सहभाविनोऽतोऽनुपचरिताः यश्चोपरितः स पर्यायः, अत एव द्रव्याश्रिता गुणाः, उभयाश्रिताः पर्यायाः, तदुक्तं 'गुणाणमासओ दव्वं एगदव्वस्सिया गुणा लक्खणं पज्जवाणं तु उभओ अस्सिया भवे' इति ॥