________________
द्वितीयो भाग / सूत्र - ३, सप्तमः किरणे
- ३३७ प्रामाण्याप्रामाण्ये भवत इत्यर्थः, एवशब्देनोभयस्यापेक्षाविशेषेण स्वापेक्षत्वं परापेक्षत्वञ्च व्यावर्तितम् । तथा च प्रामाण्याप्रामाण्ये अभ्यासदशापन्नज्ञाने स्वाश्रयग्राह्ये, अनभ्यासदशापन्ने तु परंतो ग्राह्ये, अभ्यासानभ्यासौ ज्ञानावरणक्षयोपशमविशेषप्रयोज्यौ जातिविशेषावेव ज्ञानगतो, विषयगतत्वन्तु तयोरुपचारात्, आत्मनः परिणामित्वेनोभयस्वभावात्, तेन सर्वथा क्षणिकस्य नित्यस्य वाऽऽत्मनोऽभ्यासानभ्यासस्वभावत्वं कथमिति शङ्का परास्ता । द्रव्यत्वस्य परिणामित्वव्याप्यत्वात् । प्रामाण्यग्राहकञ्च परं स्वाश्रयातिरिक्तं संवादज्ञानमेव, कारणगुणबाधकज्ञानयोरप्येतन्मुखापेक्षित्वात् । कारणगुणानां संवादप्रत्ययमन्तरेण ज्ञातुमशक्यत्वात् संवादप्रत्ययतः कारणगुणपरिज्ञानाभ्युपगमे च तत एव प्रमाण्यनिश्चयस्यापि सिद्धत्वेन कारणगुणपरिकल्पनानर्थक्यात् । न चैकदा संवादप्रत्ययेन निश्चित्य कारणगुणानन्यदा तन्निश्चयादेव तज्जन्यज्ञानस्य निश्चयो न तत्र पुनस्संवादापेक्षेति वाच्यम्, अतीन्द्रियेषु चक्षुरादिषु कालान्तरेऽपि संवादक ज्ञानमन्तरा गुणानुवृत्तेनिश्चेतुमशक्यत्वात्, न च संवादप्रत्ययात्प्रामाण्याभ्युपगमे संवादप्रत्ययस्याप्यपरसंवादप्रत्ययात्प्रामाण्यावगमेनानवस्थेति वाच्यम्, संवादप्रत्ययस्य संवादरूपत्वेनापरसंवादापेक्षाभावादनवस्थानवतारात् । न च प्रथमस्यापि संवादापेक्षा मा भूदिति वाच्यम्, संवादजनकत्वस्यैव प्रामाण्यत्वेन तदभावे प्रामाण्यासम्भवात् अर्थक्रियाज्ञानरूपं संवादज्ञानन्तु साक्षादविसंवादि, अर्थक्रियालम्बनत्वात्, तस्य स्वविषयसंवेदनमेव प्रामाण्यं, तच्च स्वतस्सिद्धमिति नान्यापेक्षा । न चार्थक्रियाज्ञानस्याप्यवस्तुवृत्तिशङ्कायामन्यप्रमाणापेक्षयाऽनवस्था स्यादिति वाच्यम्, अर्थक्रियाज्ञानस्यार्थक्रियानुभवस्वभावत्वेनार्थक्रियामात्रार्थिनां भिन्नार्थक्रियात एतज्ज्ञानमुत्पन्नं किं वा तयतिरेकेणेत्वेवंभूतायाश्चिन्ताया निष्प्रयोजनत्वात् निष्पन्नत्वाद्वाञ्छितफलस्य । एवञ्च संवादकज्ञानस्य परत्वे समानजातीयभिन्नजातीयैकसन्तानभिन्नसन्तानविकल्पकृतदोषाणां नोपनिपातः, उभयस्वीकारात्, देवदत्तघटज्ञाने समानजातीययज्ञदत्तघटज्ञानस्य, प्रथमप्रवृत्तजलज्ञाने भिन्नजातीयस्योत्तरकालभाविस्नानपानावगाहनाद्यर्थक्रियाज्ञानस्य, एकसन्तानगतेऽन्धकारकलुषितालोकप्रभवकुम्भज्ञाने निस्तिमिरालोकप्रभवकुम्भ
१. अनभ्यासदशायामपि स्वगतं प्रामाण्यं यदि स्वयमेव ज्ञायेत यथार्थपरिच्छेदकमहमस्मीति तदेदं ज्ञानं प्रमाणं नवेति प्रामाण्यसंशयो न स्यादेव, ज्ञानत्वे संशयाभाववत, न च निश्चितेऽपि प्रामाण्ये प्रमाणाप्रमाणसाधारणज्ञानत्वधर्मदर्शनेन विशेषादर्शनेन च संशयो भवतीति वाच्यम्, साधकबाधकप्रमाणतिरस्कारेण साधारणधर्मदर्शनस्य-संशयं प्रत्यकारणत्वादन्यथा संशयानुच्छेदप्रसङ्गः स्यात् प्रकृते च स्वतः प्रामाण्यज्ञप्तिरूपस्य प्रामाण्यसाधकस्याप्रामाण्यबाधकस्य सत्त्वात् तस्मात्संशयानुरोधेन तत्र न स्वतो ग्राह्यं प्रामाण्यमिति भावः । २. संवादकज्ञानञ्च यादृशोऽर्थः पूर्वस्मिन् विज्ञानेऽवगतस्स तादृश एवेति येन विज्ञानेन व्यवस्थाप्यते तत्, अत्र पक्षे कारणगुणज्ञानस्य बाधकाभावज्ञानस्य च संवादकज्ञानत्वेन प्रामाण्यनिश्चायकत्वेन क्षतिः ॥