________________
द्वितीयो भाग / सूत्र - २, सप्तमः किरणे
३२९
ननु तत्प्रामाण्यनिश्चयस्स्वतो वा परतो वा स्यात् न स्वतः, स्वसंविदितत्वेऽपि ज्ञानत्वेनैव ज्ञानस्य ग्रहणात् न तु तन्निष्ठप्रामाण्येन, ज्ञानत्वस्य त्वाभाससाधारणत्वात् प्रामाण्यस्यापि ग्रहे सर्वेषां विप्रतिपत्त्यभावप्रसङ्गाय स्वस्वज्ञानस्य हि प्रामाण्यग्रहे सर्वे प्रवादास्सत्याः स्युः । ज्ञानेन स्वतः प्रामाण्यग्रहे प्रामाण्यनिश्चयात्संशयोच्छेदप्रसङ्गश्च यदि हि ज्ञानं न गृहीतं तदा धर्मिज्ञानाभावादेव न तत्संशयः, समानधर्मवत्तया धर्मिज्ञानस्य संशयहेतुत्वात् गृहीते च ज्ञाने तत्प्रामाण्यमपि गृहीतमेवेति तदापि संशयो न स्यादिति । नापि परतः, परो हि ज्ञानान्तरं वा अर्थक्रियानि सो वा, तद्गोचरनान्तरीयकार्थदर्शनं वा तच्च सर्वं स्वतोऽगृहीतप्रामाण्यमव्यवस्थितं कथं पूर्वप्रवर्तकज्ञानं व्यवस्थापयेत् स्वतो वाऽस्य प्रामाण्ये प्रवर्तकज्ञानमपि तथैव स्यात् परस्याप्यन्यतः प्रामाण्ये त्वनवस्था प्रसज्येतेत्याशङ्कायामाह -
प्रामाण्याप्रामाण्ये च स्वकारणवृत्तिगुणदोषापेक्षयोत्पत्तौ परत एव ॥२॥
प्रामाण्याप्रामाण्ये चेति । स्वकारणेति, स्वस्य ज्ञानस्य यत्कारणं चक्षुरादिकारणकलापः तन्निष्ठौ यौ गुणदोषौ तावपेक्ष्य प्रामाण्याप्रामाण्ये भवत इति परमपेक्ष्योत्पद्यमानत्वादुत्पत्तिविषये ते परत एव भवत इति भावः, तेनार्थतथाभावप्रकाशकत्वरूपस्य प्रामाण्यस्य स्वज्ञानकारणातिरिक्तगुणानपेक्षत्वात्स्वत एवोत्पत्तिः, तथाहि कारणगता न ते गुणा उपलभ्यन्ते चक्षुरादीनां ज्ञानकरणानामतीन्द्रियत्वेन तद्गुणानां प्रत्यक्षतः प्रतिपत्त्यसम्भवात् नाप्यनुमानेन, इन्द्रियनिष्ठगुणैस्साकं कस्यापि लिङ्गस्य प्रत्यक्षतः प्रतिबन्धाग्रहेण प्रत्यक्षतो गृहीतव्याप्तिकलिङ्गाभावात् । अनवस्थाप्रसरेणानुमानतो गृहीतव्याप्तिकलिङ्गाभावाच्च, लिङ्गनिष्ठव्याप्तिग्राहकानुमानस्याप्यनुमानान्तरतो गृहीतव्याप्तिकत्वात् अनुमानान्तरस्यापि तथात्वादिति । किञ्चार्थतथात्वपरिच्छेदकशक्तिरूपं हि प्रामाण्यं, शक्त्यश्च सर्वास्स्वत एव भवन्ति, नोत्पादक कारणकलापाधीनाः, यथाहि मृत्पिण्डे वर्तमाना रूपादयो मृत्पिण्डादुपजायमाने घटेऽपि कार्ये तत एवोत्पद्यन्ते, न तु कारणेष्वविद्यमानाः कार्यधर्माः कारणेभ्यः कार्ये उदयमासादयन्ति किन्तु स्वत एव, घटस्यैवोदकाहरणशक्तिवत्, तथा ज्ञानेऽप्यर्थतथात्वपरिच्छेदशक्तिश्चक्षुरादिष्वविद्यमाना न तस्मादुपजायते किन्तु स्वत एवेति मतमपास्तम्, अर्थतथाभावप्रकाशकत्वरूपप्रामाण्यस्य स्वत एवोत्पत्तौ निर्हेतुकत्वेन देशकालस्वभावप्रतिनियमानुपपत्तेः गुणवच्चक्षुरादिसत्त्वे यथावस्थितार्थप्रतिपत्तेस्तदभावे च तदभावस्य दृष्टत्वेन तद्धेतुकत्व-व्यवस्थापनात्,