________________
२७८
तत्त्वन्यायविभाकरे
અભેદનો અસંભવ ભાવાર્થ – “દ્રવ્યાર્થિકનયના ગૌણપણામાં, પર્યાયાર્થિકની પ્રધાનતામાં તો અભેદ ઉપચાર કરવો थे, 34 3-अमेहनो असंभव छ." વિવેચન –વ્યાર્થિકન મુખ્ય અભેદવૃત્તિનો સમર્થક છે, પર્યાયાર્થિક મુખ્ય ભેદ સમર્થક છે. અભેદ ઉપચાર કરવો જોઈએ, કેમ કે-અભેદનો અસંભવ છે. એટલે અમેદવૃત્તિનો અસંભવ છે. कथमभेदासम्भव इत्यत्राह -
तथाहि नैकत्रैकदा विरुद्धनानागुणानामभेदसम्भवो धर्मिभेदात् । नापि स्वरूपेण, प्रतिगुणं स्वरूपभेदात्, नाप्यर्थेन, स्वाधारस्यापि भेदात्, नवा सम्बन्धेन सम्बन्धिभेदेन सम्बन्धभेदात्, नाप्युपकारेण, तत्तज्जन्यज्ञानानां भेदात्, नापि गुणिदेशेन तस्यापि प्रतिगुणमनेकत्वात्, नापि संसर्गेण, संसर्गिभेदेन भेदात्, नापि शब्देन, अर्थभेदेन तस्य भेदादिति । तस्मादभेदमुपचर्य तद्धर्माभिन्नानेकयावद्धर्मात्मकवस्तुबोधजनकत्वं वाक्यानामिति ॥ २२ ॥
तथाहीति । कालेन भेदमाह नैकत्रेति, एकाधिकरण इत्यर्थः, एकदेति एककालावच्छेदेनेत्यर्थः, विरुद्धनानागुणानामिति, परस्परं विरुद्धानां विविधानां गुणानामित्यर्थः । असम्भवेनेति शेषः, तथा च परस्परं विरुद्धानामनेकगुणानामेककालावच्छिनैकाधिकरणवृत्तित्वस्यासम्भवेनेत्यर्थः । अभेदसम्भव इति, पूर्वस्थितनोऽत्र सम्बन्धः, मुख्यतयेत्यादिः तथा च मुख्यतया नाभेदस्य सम्भव इति भावः, तेन गौणतयाऽभेदसम्भवेऽपि न क्षतिः । एकत्रैकदा विरुद्धगुणानां सत्त्वे गुणभेदेन गुणिभेदस्यावश्यकत्वान्न धबँक्यं स्यादित्याह धर्मिभेदादिति, तावदाश्रयस्य तावत्प्रकारेण भेदात्, पर्यायभेदेन पर्यायिभेदस्यावश्यकत्वादिति भावः । स्वरूपेण भेदासम्भवमाह नापि स्वरूपेणेति, विरुद्धनानागुणानामभेदसम्भव इत्यनुषज्यते, एवमुत्तरत्रापि । हेतुमाह प्रतिगुणमिति, तत्तद्गुणानां स्वस्वरूपस्य भिन्नत्वादिति भावः, न च घटादिगुणत्वं हि स्वरूपशब्देन विवक्षितं तच्च घटादिवृत्तिसकलगुणेषु समानमेवेति कथं स्वरूपभेद इति वाच्यम्, गुणभेदेन गुणिभेदस्यावश्यकतया प्रतिगुणं वस्तुभेदेन तद्गुणत्वस्यापि भेदादित्यत्र तात्पर्यात् । नापि गुणत्वधर्मत्वादिस्वरूपाणामभेद इति वाच्यम्, तथा सति तेन रूपेण जगद्वृत्तिगुणानां धर्माणाश्चाभेदप्रसङ्गेन परस्परभेदस्य विरोधप्रसङ्गादिति । अर्थेनाभेदवृत्त्यसम्भवमाह नाप्यर्थेनेति, हेतुमाह स्वाधारस्यापीति