________________
तत्त्वन्यायविभाकरे
૦ ત્યાં-સપ્તભંગીમાં પણ પ્રમાણવાક્યત્વ, ઉત્થાપ્ય આકાંક્ષાના ક્રમથી છ ભાંગાની સંયોજનાદ્વારા
४ छे.
२७६
વળી સકલ આદેશપણું પ્રત્યેક ભંગમાં અનંતધર્માત્મકપણાના ઘોતનથી છે, અન્યથા વિકલ આદેશપણું જ છે, એમ કેટલાક આચાર્યો કહે છે.
બીજા આચાર્યો કહે છે કે-‘પ્રારંભિક ત્રણ ભાંગાઓમાં અખંડ વસ્તુનું વિષયપણું હોઈ સકલાદેશપણું છે, અંતિમ ચાર ભાંગાઓમાં એક દેશનું વિષયપણું હોઈ વિકલાદેશપણું છે.”
नन्वभिन्नताप्रयोजककालाद्यष्टासु मध्ये सम्बन्धसंसर्गौ द्विधा कथमुपात्तौ तयोर्भेदा
दर्शनादित्यत्राह
सम्बन्धे कथञ्चित्तादात्म्यलक्षणेऽभेदः प्रधानं भेदो गौणः, संसर्गे त्वभेदो गौणो भेदः प्रधानम् । तथा च भेदविशिष्टाभेदस्सम्बन्धः, अभेदविशिष्टभेदस्संसर्ग इति विवेक: । अयञ्च पर्यायार्थिकनयस्य गुणभावे द्रव्यार्थिकनयस्य प्रधानभावे युज्यते ॥ २० ॥
-
सम्बन्ध इति । कथञ्चित्तादात्म्यं हि सम्बन्धः, स च भेदाभेदघटितमूर्त्तिकः, तत्र यदाऽभेदस्य प्राधान्यं भेदस्य च गौणत्वं क्रियते तदा स सम्बन्धशब्दव्यवहार भाग्भवति, यदा तु भेदस्य प्रधानतयाऽभेदस्य च गौणतया विवक्ष्यते तदा स संसर्ग इति व्यवह्नियत इति भावः । फलितार्थमुभयोराह तथाचेति । भेदविशिष्टाभेद इति, अत्र भेदो गौणो विशेषणत्वात्, अभेदस्य विशेष्यत्वेन प्रधानता बोध्या । अभेदविशिष्टेति, अत्रापि विशेषणत्वादभेदस्य गौणत्वं विशेष्यत्वाच्च भेदस्य प्राधान्यमवसेयम् । ननु कथमत्र कालादिभिरभेदवृत्तिरभेदोपचारो वेत्यत्राहायञ्चेति, पूर्वसंघटितस्सकलादेशबोध इत्यर्थः । पर्यायार्थिकनयस्य गुणभाव इति, तस्य प्राधान्ये त्वभेदवृत्त्यसम्भव इति भावः । अस्य गौणत्व एव द्रव्यार्थिकनयस्य प्राधान्यं संभवति, एकदा नयद्वयस्य प्राधान्यासम्भवादित्याशयेनाह द्रव्यार्थिकनयस्येति, पर्यायार्थिकनयो गौणीकृत्य धर्मिणं धर्मात्मकपर्यायप्राधान्यप्रख्यापकः, द्रव्यार्थिकनयः पर्यायोपेक्षया धर्मिमात्रप्राधान्यप्रख्यापक इति ॥
तत्र
અભિન્નતાના પ્રયોજક કાળ આદિ આઠમાં સંબંધ અને સંસર્ગ-એમ બે પ્રકારે કેમ ગ્રહણ કરેલા છે ? કારણ કે-તે બંનેમાં ભેદ તો દેખાતો નથી. આવી શંકાના સમાધાનમાં કહે છે કે
१. द्रव्यपर्यायात्मकं हि वस्तु, तत्र द्रव्यनयार्पणायां तदभिन्नपर्यायाणामभानेऽपि ते सन्त्येव परन्तु पर्यायनयस्य गौणीकृतत्वात्ते गुणभूताः एकदोभयनयस्य प्राधान्यासम्भवात् न तावता तेषां नास्तित्वं दुर्नयप्रवेशापत्तेः, पर्यायार्पणया द्रव्यनयस्य गुणभावेन च पर्यायाः प्राधान्येन भासन्ते द्रव्यन्तु तदभिन्नं गुणतयेति ॥