________________
तत्त्वन्यायविभाकरे
रूपत्वाभावात् अविशिष्टयोरपि गोत्वाश्वत्वयोरुभयत्वप्रत्ययात् तत उभयत्वं भिन्नं, तद्भेदे च कथञ्चिदुभयभेदोऽप्यर्थसिद्ध एव । परन्त्वेतद्वाक्यस्य क्रमादुभयमुख्यविशेष्यताकबोधजनकत्वेन क्रमार्पितत्वं कथमत्र धर्मेऽन्वेति क्रमिकशब्दबोधद्वयेच्छाविषयविषयत्वरूपस्य तस्य पदानुपस्थितत्वेन वस्तुधर्मतया तद्बोधासम्भवादिति चेन्न, स्यात्पदेन क्रमार्पितत्वस्य द्योतनात् अनुभूयते हि स्यादस्ति स्यान्नास्ति च घट इति वाक्यात्क्रमार्पितसत्त्वासत्त्वोभयधर्मवन्तममुं घटं जानामीति, तत्र चैकत्वेन गृहीते सदसत्त्वे उभयत्वप्रत्ययस्य भाक्तोभयावगाहित्वेन तत्र च क्रमार्पितत्वस्यावच्छेदकत्वात् न च क्रमबलादेवात्र ज्ञानद्वयस्य सिद्धयाऽस्य प्रथमभङ्गद्वयाभेदः स्यादिति वाच्यम्, क्रमगर्भोभयप्राधान्यबोधकत्वाभिप्रायेणास्तिनास्ति-पदप्रयोगेणैकत्र द्वयमिति रीत्या विलक्षणविषयताशालिबोधान्तरस्यानुभवसिद्धत्वात् । न च क्रमो हि शब्दव्यापारः, अर्थस्तु विशिष्टः क्रमाघटित एवेति तत्र क्रमादिकमनतिप्रयोजनमिति वाच्यम्, शब्दगतस्यापि क्रमस्यार्थेऽध्यारोपेण तत्सम्भवादिति । एवं सहावक्तव्यत्वादिष्वपि चिन्तनीयम् । कथञ्चिदवक्तव्यत्वमिति, युगपद्विधिनिषेधात्मनाऽवक्तव्यत्वमित्यर्थः, सहार्पितावक्तव्यत्वमिति यावत् । ननु सहार्पितत्वं एकदैकपदादुभयबोधो जायतामितीच्छाविषयत्वं सा चेच्छा बाधिते नोदेतीति न तदवक्तव्यस्यावच्छेदकम् न चोभयपदेन युगपदुभयप्राधान्येन बोधसम्भवादवक्तव्यत्वमेवासिद्धं दृष्टं हि पुष्पदन्तपदाच्चन्द्रत्वसूर्यत्वाभ्यां चन्द्रसूर्ययोर्युगपदेव बोध इति वाच्यम्, पुष्पदन्तपदवदुभयपदस्यासाधारणत्वाभावात्, बुद्धिविषयतावच्छेदैकत्वेनास्तित्वनास्तित्वधर्मद्वयावच्छिन्नस्य बोधकत्वेऽपि प्राधान्येन सहार्पितोभयाकारबोधासिद्धेरिति चेन्न, पुत्रनाशे सत्यपि पुत्रदिदृक्षाया आनुभविकत्वेन क्वचिदाधितेऽपीच्छोदयतोऽवक्तव्यस्यावच्छेदकत्वे बाधाभावात् । अथ पञ्चमं धर्ममाह कथञ्चित्सत्त्वेति । अथ षष्ठं धर्ममाह कथञ्चिदसत्त्वेति । सप्तममाह क्रमार्पितेति ॥
२६२
१. क्रमेण सत्त्वासत्त्वोभयविषयकशाब्दबोधद्वयं जायतामितीच्छाविषयं बोधद्वयं तद्विषयं सत्त्वासत्त्वोभयमित्यर्थः । पदानुपस्थितत्वेनेति, शब्दोपस्थितस्यैव शाब्दबोधे भाननियमादिति भावः ॥ २. तृतीयभङ्गो हि क्रमेण शाब्दबोधो जायतामितीच्छाप्रयुक्तस्तथा च सत्त्वप्रकारकघटविशेष्यकमसत्त्वप्रकारकघटविशेष्यकं बोधद्वयमेव जायत इति भङ्गद्वयसंयोगरूप एवायं भङ्गः प्रसक्त इति शङ्काशयः, समाधानञ्च प्रकारताद्वयनिरूपितैकविशेष्यताशालिबोधस्याऽप्यनुभवसिद्धत्वेन तादृशो बोधोऽस्य भङ्गस्य फलमिति ॥ ३. पुष्पदन्तपदस्य चन्द्रत्वेन चन्द्रे सूर्यत्वेन सूर्ये व्यासज्यवृत्तिरेका शक्तिरिति तेनोभयधर्मनिष्ठप्रकारताद्वयनिरूपितो बोधो भवेत् परन्तुभयपदस्य बुद्धिविषयतावच्छेदकत्वेन यत्किश्चिद्धर्मद्वये शक्तिसंभवेऽपि प्रातिस्विकधर्मावच्छिन्नप्रकारताद्वयनिरूपितमुख्यविशेष्यताशालिबोधस्तस्मान्न भवेदेवेति भावः ।