________________
द्वितीयो भाग / सूत्र - १-२, षष्ठ किरणे
२३७
જો કે વંચકવચનજન્ય અર્થવિજ્ઞાન પણ તેવું હોય છે, માટે યથાર્થ પ્રવક્તાવચનજન્ય અર્થવિજ્ઞાનઆગમ” એમ લક્ષણ કરેલ છે.
જો કે પરાર્થ અનુમાન પણ યથાર્થ પ્રવક્તાવચનજન્ય અર્થજ્ઞાનરૂપ હોઈ, તેના વારણ માટે વિલક્ષણતાબોધક વિપદથી ઘટિત વિજ્ઞાનપદનું ગ્રહણ કરેલ છે.
ननु यदीदृशार्थविज्ञानमेवाऽऽगमस्तहि कथं सिद्धान्तविदामाप्तवचने आगमप्रत्यय इत्याशङ्कायामाह -
अर्थविज्ञानहेतुत्वादाप्तशब्दोऽप्यागम उपचारात् । यथा गोष्ठे गौरस्ति, धर्मसाध्यः परलोकोऽस्तीत्यादयः ॥२॥
अर्थेति । उपचारादिति, कारणे कार्यस्योपचारादित्यर्थः, प्रतिपाद्यज्ञानस्य ह्याप्तवचनं कारणमिति भावः । तत्र शाब्दस्य लौकिकशास्त्रजभेदेन द्वैविध्याल्लौकिकस्य दृष्टान्तमाह यथेति, एतद्वाक्यं तज्जन्यशाब्दबोधश्चागम इति भावः, उपलक्षणञ्चैतत् चतुर्दशविद्यास्थानानाम् शास्त्रजं निदर्शयति, धर्मेति, ईदृग्वाक्यानि, तज्जन्यबोधश्चागम इति भावः । उपलक्षणञ्चैतदपि द्वादशाङ्गचतुर्दशपूर्वाणाम्, अथवाऽऽगमस्त्रिविधः आत्मागमोऽनन्तरागमः परम्परागमश्चेति, गुरूपदेशमन्तरेणाऽऽत्मन एवागमः आत्मागमः, यथा तीर्थकराणाम्, तीर्थकरादागतत्वाद्गणधराणामर्थागमोऽनन्तरागमः, सूत्रस्य त्वात्मागमस्स्वयमेव ग्रथितत्वात्, जम्बूस्वामिप्रभृतीनान्तु सूत्रस्यागमोऽनन्तरागमोऽर्थस्य तु परम्परागमः । तत ऊर्ध्वं प्रभवाणान्तु परम्परागम एव ॥ नन्वर्थप्रतिपादकत्वं शब्दस्य न सम्भवति, तथाहि ये शब्दा अर्थे सति दृष्टास्त एवातीतानागतादौ तदभावेऽपि दृश्यन्ते, यदभावे च यदृश्यते न तत्तत्प्रतिबद्धम् यथाऽश्वाभावेऽपि दृश्यमानो गौर्न तत्प्रतिबद्धः, अर्थाभावेऽपि च दृश्यन्ते शब्दाः तन्नैतेऽर्थप्रतिपादकाः, किन्त्वन्यापोहमात्राभिधायका इति चेन्नार्थवतश्शब्दात्तद्रहितस्य शब्दस्यान्यत्वात्, न चान्यस्य व्यभिचारेऽन्यस्यापि व्यभिचारो भवितुमर्हति, गोपालघटिकादिधूमस्याग्निव्यभिचारोपलम्भेन पर्वतादिप्रदेशवर्त्तिनोऽपि वढ्यगमकत्वापत्तेस्तथा च कार्यहेतवे जलाञ्जलिर्दत्ता स्यात् किञ्च प्रतीतिविरोधोऽपि स्याच्छब्दस्यान्यापहाभिधायकत्वे, गवादिशब्देभ्यो विधिरूपतयाऽर्थप्रतीतेः,
१. शब्दानां न परमार्थतः किञ्चिद्वाच्यं वस्तुस्वरूपमस्ति, शाब्दप्रत्ययानां सर्वेषां भ्रान्तत्वात् भिन्नेष्वेवाभेदाकासध्यवसायेन प्रवृत्तेः, यत्र तु पारम्पर्येण वस्तुप्रतिबन्धस्तत्रार्थसंवादो भ्रान्तत्वेऽपि तत्र यत्तदारोपितं विकल्पबुद्धयाऽर्थे भिन्नं रूपं तदनन्यव्यावृत्तपदार्थानुभवबलायातत्वात् स्वयञ्चान्यव्यावृत्ततया प्रतिभासनात् भाने स्वान्यव्यावृत्त्याऽर्थेन सहैक्येनाध्यवसितत्वादन्यापोढपदार्थाधिगतिफलत्वाच्चापोह उच्यते, अतोऽपोहश्शब्दार्थ इति प्रसिद्धम् ॥