________________
अथ पञ्चमः किरणः
अथ हेतुप्रसङ्गाद्धेत्वाभासान्निरूपयितुमुपक्रमते असिद्धविरुद्धानैकान्तिकास्त्रयो हेत्वाभासाः ॥ १ ॥
असिद्धेति । हेत्वाभासा इति हेतुवदाभासन्त इति हेत्वाभासाः, दुष्टहेतव इत्यर्थः, हेतुस्वरूपस्य निश्चितव्याप्तिमत्त्वस्याप्रतीतिविपर्याससंदेहैः पञ्चम्यन्तत्वेन च हेतोरिवाभासमानत्वादसिद्धादीनां हेत्वाभासत्वमवसेयम् । त्रय इति संख्यान्तरव्यवच्छेदाय, तेन बाधसत्प्रतिपक्षयोर्हेत्वाभासत्वव्यवच्छेदः । बाधस्य पक्षदोषेष्वन्तर्भावात् । सत्प्रतिपक्षस्य दोर्षत्वासम्भवाच्च । यथोक्तलक्षणेऽनुमाने प्रयुक्तेऽदूषितेऽनुमानान्तरस्यासम्भवात् । तुल्यबले साध्यतद्विपर्ययसाधकहेतुद्वये सत्यपि तत्र प्रकृतसाध्यसाधनयोर्व्याप्तनिश्चयेऽसिद्ध एवान्तर्भाव - सम्भवाच्च । अत्रेदम्बोध्यमनेकान्तविरुद्धबुद्धिभिरुपन्यस्यमानास्सर्व एव हेतवोऽसिद्धा इत्येकविध एव हेत्वाभास इति श्रीसिद्धसेनदिवाकरसूरयः । विरुद्ध एवेति विरुद्ध एक एवेति मल्लवादिनः, समन्तभद्राचार्यास्तु तेऽनैकान्तिका इति स एव हेत्वाभास इत्याहुः, शिष्टानां तत्रैवान्तर्भावात् तदुक्तं ‘असिद्धस्सिद्धसेनस्य विरुद्धो मल्लवादिनः । द्वेधा समन्तभद्रस्य हेतुरेकान्तसाधने ॥” इति, तदिदमिष्टमपि नितरां संक्षिप्ततया शिष्यमतिविकासनाय
-
१. नित्यश्शब्दोऽनुपलभ्यमानानित्यधर्मकत्वात् अनित्यश्शब्दोऽनुपलभ्यमाननित्यधर्मकत्वादित्यत्र सत्प्रतिपक्षता वक्तव्या सा च न सम्भवति, अनुपलभ्यमाननित्यधर्मकत्वस्य पक्षेऽसत्त्वेऽसिद्धेरेव दोषत्वात्, साध्यधर्मान्वितधर्मिणि तत्सिद्धौ गमकत्वमेव स्यात्, अविनाभावसत्त्वात् पश्चात्तत्र साध्यं सिद्धयति नेदानीमिति चेत्तर्हि विरुद्धता स्यात्, इदानीमन्त्र संदेहस्साध्यस्येति चेदनैकान्तिकत्वं, न च पक्षान्तर्भावेण व्यभिचारो न दोषः विपक्षव्यावृत्तस्य सपक्षे पक्षे च सत एव गमकत्वादिति वाच्यम्, पक्षान्तर्भावेण व्याप्त्य निश्चये धर्म्यन्तर एव स्वसाध्येन व्याप्तिनिश्चये पक्षे हेतुसत्त्वेऽपि स्वसाध्यासाधकत्वापत्तेः तत्र व्याप्तेरग्रहणादिति न सत्प्रतिपक्षो दोष इति भावः ॥ २. अनैकान्तिक इत्यर्थः ।