________________
___ १६१
द्वितीयो भाग / सूत्र - १२, चतुर्थः किरणे सर्वथा भावविलक्षणाभावग्राहक प्रमाणाभावात् । न च स्वोत्पत्तेः पूर्वं नासीद्धट इति ज्ञानमभावविषयकं भावप्रत्ययविलक्षणत्वाद्यस्तु भावविषयो नासौ भावप्रत्ययविलक्षणो यथा घट इत्यादिप्रत्यय इत्यनुमानं प्रागभावग्राहकमिति वाच्यम्, प्रागभावादौ नास्ति प्रध्वंसाभवादिरिति प्रत्ययेन व्यभिचारात् । न च सोऽपि प्रत्ययोऽभावविषय इति न व्यभिचार इति वाच्यम्, अभावानवस्थाप्रसङ्गात् । अत एव प्रागभावस्य सर्वदा भावविशेषणत्वमसिद्धं प्रध्वंसाभावादौ न प्रागभाव इत्यादौ प्रागभावस्याभावेऽपि विशेषणत्वात् । तस्मादृजुसूत्रनयार्पणात् कार्यस्याव्यवहितपूर्वोपादानपरिणाम एव प्रागभावः । न च तत्पूर्वानादिपरिणामसन्ततौ कार्यसद्भावप्रसङ्ग इति वाच्यम्, यतो घटस्य प्रागभावः कुसूलं तस्य कोशस्तस्य स्थासस्तस्यापि मृत्पिण्ड एवं परमाणौ तत्परम्पराया विश्रान्तिस्तथा च तत्परम्परानाधारघटध्वंसपरम्परानाधारकालत्वस्यैव घटव्याप्यत्वेन नाघटकाले घटवत्त्वप्रसङ्ग इति । व्यवहारनयार्पणात्तु मृदादिद्रव्यं घटादेः प्रागभावः स चानादिः । न च घटादेः प्रागभावाभावस्वभावत्वं न सम्भवति मृदादिद्रव्यस्याभावासम्भवादिति वाच्यम्, घटादिरहितस्य पूर्वकोलविशिष्टस्य मृदादिद्रव्यस्यैव घटादिप्रागभावरूपतया तस्य च कार्योत्पत्तौ विनाशसिद्धेः, नहि कार्यरहितत्वस्य विनाशमन्तरेण कार्यसहिततयोत्पत्तिस्सम्भवति, प्रमाणार्पणात्तु द्रव्यपर्यायात्मा प्रागभाव इति ।
પ્રસંગથી અભાવના સર્વથા ભાવસ્વરૂપથી ભિન્નપણામાં દૂષણ છે, એમ બતાવવા માટે પ્રતિષેધના વિભાગપૂર્વક સ્વરૂપનું કથન કરે છે.
ભાવાર્થ – “પ્રતિષેધ, પ્રાગુ અભાવ-પ્રધ્વંસ અભાવ-અન્યોડન્ય અભાવ અને અત્યંત અભાવના ભેદથી ચાર (૪) પ્રકારનો છે. જેની નિવૃત્તિમાં-વિનાશમાં કાર્યનો આવિર્ભાવ, તે “પ્રાગભાવ' કહેવાય छ." भ3-प्रत्ये भाटीनो पिंड.
વિવેચન – અહીં આ ભાવ છે કે-જો પદાર્થોને અસ્તિત્વરૂપે જ સ્વીકારવામાં આવે અને તમામ અભાવોને અપલાપ કરો, તો સર્વ સર્વરૂપ બની જાય ! એવો પ્રસંગ આવે ! કોઈ ભેદ જ ન રહે!
१. अभावादिकरणकाभावप्रतियोगिकाभावस्याधिकरणात्मकत्वेन प्रागभावभिन्नप्रध्वंसाभावाभावाविषयकत्वेन हेतुसत्त्वेऽपि साध्याभावाद्वयभिचार इति भावः ॥ २. कालविशेषावच्छिन्नस्वरूपसम्बन्धेन मृद्रव्यं घटप्रागभावव्यवहारनिमित्तं, पूर्वकालात्मकस्य कालविशेषस्य संसर्गघटितत्वेन तस्य च प्रागनुपस्थितस्य संसर्गत्वे कस्याप्यविवादादत्र नान्योऽन्याश्रयः । न चैवं कालविशेषघटितसम्बन्धेन मृदादिद्रव्यमेव घटादिव्यवहारविषयोऽस्तु किमतिरिक्तेन घटादिद्रव्येणेति वाच्यम्, मृदादिद्रव्याद्धटादिद्रव्यस्य पृथगनुभूयमानत्वेन तन्मात्रत्वाकल्पनात्, प्रागभावादेस्तु पृथगनुभूयमानत्वाभावेनाधारमात्रस्वरूपत्वकल्पनात्, घटस्वरूपे मृदादिद्रव्ये आधारभिन्नत्वमुद्भूतं, अभावपर्याये त्वनुद्भूतमिति भावः ॥