________________
१३२
तत्त्वन्यायविभाकरे
इति । अनुपलम्भश्च साध्याभावे हेतोरनुपलम्भ इति । साध्यसाधनग्रहणाग्रहणात्मकाविमौ प्रमाणमात्रेणाभिमतौ ॥६॥ ___ व्याप्तिविषयकेति । साक्षादेवेति स्मरणप्रत्यभिज्ञानिरपेक्षमेवेत्यर्थः, सादृशक्षयोपशमविशेषबलात्तथा जायत इति भावः । परम्परया तर्कोत्पत्तिमाह क्वचित्त्विति । उपलम्भानुपलम्भौ दर्शयति उपलम्भश्चेति साध्यसाधनयोर्ग्रहणमिति भावः । अनुपलम्भश्चेति, साध्यसाधनयोरग्रहणमित्यर्थः, तथा च धूमाधिकरणे वह्निदर्शनं, वह्नयभावाधिकरणे धूमाभावदर्शनमिति द्वयोस्तात्पर्यार्थः । कथं तयोर्ग्रहणमित्यत्राह साध्यसाधनेति, तेनातीन्द्रियसाध्यहेतुकस्थलेषु न दोष इति भावः ॥
હવે ઉપલંભ અને અનુપલંભને દર્શાવે છે.
'उपलम्भश्चेति ।' साध्य-साधन- अह मेवो मा छे. 'अनुपलम्भश्चेति ।' साध्य-साधननु भय। એવો અર્થ છે. તથાચ ધૂમના આધારમાં અગ્નિનું દર્શન અને વતિના અભાવના આધારમાં ધૂમના અભાવનું દર્શન, એ ઉપલંભ અને અનુપલંભનો તાત્પર્યભૂત અર્થ છે. (અન્વય વ્યતિરેક) તે બંનેનું ગ્રહણ આદિ કેવી Na? तो छ - 'साध्यसाधनेति ।' तथा मतान्द्रिय साध्य माने हेतु स्थगोमा होप नथी. [:સૂર્યની ગમનશક્તિ છે, કેમ કે-ગમનની અન્યથા અનુપપત્તિ છે. અહીં ગમનરૂપ ધર્મ આપ્તવચનથી છે. ગમનશક્તિ કહેલા અનુમાનથી પહેલાં સિદ્ધ નથી, કિન્તુ જે કાર્ય છે, તે શક્તિવાળા કારણથી જન્ય છે. જેમ કે-ઘટાદિ, તેમજ ગમન કાર્ય છે. આવા પ્રકારના બીજા અનુમાનથી સિદ્ધ થાય છે, કેમ કે-તે સાધ્ય અને साधन बने सतीन्द्रिय छे.]
अथ वाच्यवाचकभावसम्बन्धज्ञानजननविधानमाहवाच्यवाचकभावसम्बन्धज्ञानन्तु क्वचिदावापोद्वापाभ्यां समुदेति । यथा प्रयोजकवृद्धप्रयुक्तगामानयेतिवाक्यश्रवणसमनन्तरगवानयनप्रवृत्तिमत्प्रयोज्यवृद्धचेष्टाप्रेक्षणजन्यैतद्वाक्यजन्यैतदर्थविषयकज्ञानवानयमित्यनुमानज्ञानवतोऽपि बालस्य तत्तदर्थविशेष्यकतद्वाक्यघटिततत्तत्पदवाच्यत्वसंशयवतः कालान्तरीयप्रयोजकवृद्धप्रयुक्तगां नयाश्वमानयेति गोशब्दानयनशब्दविषयकावापोद्वापवद्वाक्यश्रवणजन्यप्रयोज्यवृद्धप्रवृत्तितो गोजातीयोऽर्थो गोशब्दस्य वाच्यो गोजातीयश्च शब्दो गोजातीयस्य वाचक इत्येवंरूपस्तर्कस्समुल्लसति । क्वचिच्चाप्तपुरुषप्रयुक्तेन परार्थतर्करूपेणेदृशोऽर्थ ईदृश
१. यथाऽस्ति तपनस्य गमनशक्तिर्गमनान्यथानुपपत्तेरित्यत्र गमनरूपो धर्म आप्तवचनात्, गमनशक्तिश्चोक्तानुमानादाक् नहि सिद्धः किन्तु यत्कार्यं तच्छक्तिमत्कारणपूर्वकं, यथा घटादिः कार्यञ्च गमनमित्येवंरूपानुमानान्तरात् सिद्धयति, तयोरतीन्द्रियत्वात् इति भावः ।