________________
७६.
तत्त्वन्यायविभाकरे निदर्शनमाह यथेति । अत्रावग्रहो यद्यपि व्यञ्जनार्थावग्रहभेदेन द्विविधः, तत्रान्तर्निर्वृत्तीन्द्रियाणां शब्दादिविषयपरिच्छेदहेतुश्शक्तिविशेष उपकरणेन्द्रियरूपः, शब्दादिरूपेण परिणतद्रव्यसमूहः, उपकरणेन्द्रियपरिणतशब्दादिद्रव्ययोस्सम्बन्धश्च व्यञ्जकत्वाद्व्यज्यमानत्वाच्चोपलक्षणेन त्रितयमपि व्यञ्जनमुच्यते । व्यञ्जनेन सम्बधेनावग्रहणं व्यज्यमानस्य शब्दादिरूपार्थस्याव्यक्तरूप: परिच्छेदो व्यञ्जनावग्रहः अथवा व्यञ्जनानां शब्दादिरूपतया परिणतद्रव्याणामुपकरणेन्द्रियसम्प्राप्तानामवग्रहोऽव्यक्तपरिच्छेदो व्यञ्जनाऽवग्रहः, व्यञ्जनेनोपकरणेन्द्रियेण स्वसम्बद्धस्यार्थस्य शब्दादेरव ग्रहणमव्यक्तपरिच्छेदो व्यञ्जनावग्रह इति, अयञ्च सम्बन्धानन्तरं प्रथमसमयादारभ्यार्थावग्रहात्प्राक् सुप्तमत्तमूर्च्छितादिपुरुषाणामिव शब्दादिद्रव्यसम्बन्धमात्रविषयोऽव्यक्तो ज्ञान रूपोऽन्तरर्मुहूर्तप्रमाणः । अव्यक्तत्वादेव च न संवेद्यते संवेदनाभावात्तस्याभावाङ्गीकारे तु द्वितीयादिसमयेऽपि तस्याभावप्रसक्तया चरमसमयेऽर्थावग्रहो न स्यादेव, अर्थावग्रहस्तु स्वरूपनामजातिक्रियागुणद्रव्यकल्पनारहितस्सामान्यार्थग्रहणरूपः, तथा चोक्तदृष्टान्तेऽमनुष्यव्यावृत्तिरूपविशेषप्रतिभासनेऽपि नैश्चयिकव्यावहारिकरूपेणावग्रहस्य द्वैविध्यादत्र व्यावहारिकावग्रहो निदर्शितस्तदुत्तरमपीहादीनां प्रवृत्तेः । अन्यथा तेषां प्रवृत्तिर्न स्यादेवेति भावः ॥
અવગ્રહનું લક્ષણ કહે છે. ભાવાર્થ – “વિષય અને ઇન્દ્રિય-મનના અભિસંબંધથી જન્ય દર્શનથી પેદા થયેલ, સત્તાના અવાન્તર सामान्यवाणी वस्तु३५ विषयवाणुं शान, भे 'म ' छ. हेम :-'मा मनुष्य छ' 5त्या."
વિવેચન – અહીં દ્રવ્યપર્યાયરૂપ અર્થ “વિષય છે. ચક્ષુ આદિ ઇન્દ્રિય, મન (વિષયગ્રાહક છે) જે પ્રસિદ્ધ છે. તેઓનો વિષય-વિષયીનો અભિસંબંધ, (અભિત-બ્રાન્તિ આદિના અજનકપણાએ કરી, પૂર્ણતાઅનુકૂળતાથી જે સંબંધ) અર્થાત્ યોગ્ય દેશ આદિમાં અવસ્થિતિરૂપ સંબંધથી જન્ય, સત્તા માત્ર વિષયવાળાવિશેષ વગરના બોધરૂપ જે દર્શન (નિરાકાર બોધ) છે તેના વડે પેદા થયેલું, પ્રાથમિક, જે સત્તા સામાન્યથી અવાન્તર સામાન્ય(મનુષ્યત્વ આદિ જાતિવિશેષો)વાળા વસ્તુના વિષયવાળું જ્ઞાન-સત્ત્વવ્યાપ્ય મનુષ્યત્વ આદિરૂપ પ્રકારવાળું ઈદ– આદિ અવચ્છિન્ન-ઈદંપદ આદિરૂપ વિશેષ્યવાળું જ્ઞાન, તે અવગ્રહપદથી વાચ્યા छ. दृष्टान्तने । छ. 'यथेति ।' मला सवय 3 व्यं४न सब-अर्थ मवाना मेथी २नो છે. ત્યાં કદંબપુષ્પગોલક આદિરૂપ, અંતર્નિવૃત્તિ ઇન્દ્રિય રૂપ આશ્રયનિષ્ઠ શબ્દ આદિ વિષયના પરિચ્છેદમાં હેતુરૂપ વિશિષ્ટ શક્તિરૂપ ઉપકરણ ઇન્દ્રિય અર્થવ્યંજનકરણની અપેક્ષાએ વ્યંજન કહેવાય છે. શબ્દ આદિરૂપે
१. यस्य ज्ञानस्यान्ते तज्ज्ञेयवस्तूपादानात्तत एव ज्ञानमुपजायते तज्ज्ञानं दृष्टं, यथाऽर्थावग्रहपर्यन्ते तज्ज्ञेयवस्तूपादानात् ईहासद्भावादावग्रहो ज्ञानम्, ज्ञायते च व्यञ्जनावग्रहस्य पर्यन्ते तज्ज्ञेयवस्तूपादानात्तत एवार्थावग्रहज्ञानं तस्माद्यञ्जनावग्रहो ज्ञानमिति, अव्यक्तत्वञ्च तस्यैकतेजोऽवयवप्रकाशवत् स्वसंवेदनेनाप्यव्यज्यमानत्वादिति भावः ॥