________________
द्वितीय भाग / सूत्र - १८, द्वितीय किरणे
७१
अथ मनो लक्षयति
मतिश्रुतविषयीभूतार्थज्ञानसाधनमनिन्द्रियं मनः, अप्राप्यप्रकाशकारि ॥ १८ ॥ मतीति । मतेश्श्रुतस्य वा विषयीभूतोऽर्थस्तद्विषयकज्ञानसाधनत्वे सत्यनिन्द्रियत्वं मनसो लक्षणमित्यर्थः । मतिश्रुतान्यतरज्ञानसाधनत्वे सत्यनिन्द्रियत्वमिति यावत् । औदारिकादित्वार्थपरिच्छेदकत्वलक्षणधर्मद्वयोपेतमिन्द्रियं भवति, ईषदूनमिन्द्रियमनिन्द्रियं मनस्तत्त्वं तस्यौदारिकादित्वधर्मलक्षणदेशनिषेधात् अर्थपरिछेदकत्वलक्षणेन्द्रियसादृश्याच्च । अर्थावग्रहात् परतो मतिज्ञानमेव श्रुतज्ञानं भवति तच्च न सर्वेषामिन्द्रियाणामर्थावग्रहात् परतः, किन्तु मनोऽर्थावग्रहात् परतो मतिः श्रुतीभवतीति श्रुतस्य मनोविषयत्वं बोध्यम् । शब्दादिष्विन्द्रियव्यापारानन्तरं मनो व्याप्रियते त्रिकालविषयञ्च । ननु मे मनोऽमुत्र गतमित्याद्यनुभवेन मनो देहान्निर्गत्य जाग्रति स्वप्ने वा ज्ञेयेन सम्बध्य ज्ञानमुत्पादयत्यत इदं किं प्राप्यकारीत्यत्राहाप्राप्यप्रकाशकारीति । ज्ञेयेन सह न संश्लिष्यति मनो विषयकृतानुग्रहोपघाताभावाच्चक्षुर्वदिति, ज्ञेयसंपर्केऽभ्युपगम्यमाने तोयचन्दनादिचिन्तनकाले शैत्यानुभवनेन स्पर्शनवदनुगृह्येत, विषशस्त्रादिचिन्तनसमये च तद्वदेवोपहन्येत न चैवं, तस्मादप्राप्यकारि मन इति, तथा तस्य बहिर्निस्सरणमपि नोपपद्यते भावमनसश्चिन्ताज्ञानपरिणामरूपतया जीवादव्यतिरिक्तत्वेन देहमात्र॑व्यापित्वात् । नहि ये देहमात्रव्यापिनस्तेषां बहिर्निस्सरणं युज्यते तद्गतरूपादिवत् । द्रव्यमनसश्च घटादिवदचेतनत्वेन गत्वापि विषयदेशमकिञ्चित्कारित्वात् । न च तस्य स्वयमचेतनत्वेऽपि प्रदीपवत् करणत्वात् विषयदेशं प्राप्याऽऽत्मनो ज्ञानं जनयतीति वाच्यम्, द्रव्यमनसोऽन्तःकरणत्वात्, तथा च प्रयोगो यदन्तःकरणं तेन शरीरस्थेनैव जीवो विषयं गृह्णाति यथा स्पर्शनेन, अन्तःकरणञ्च द्रव्यं मन इति, प्रदीपादिकन्तु बाह्यकरणमात्मन इति साधनविकलो दृष्टान्तः । न च मृतनष्टादिकं वस्तु चिन्तयतो मनस उपघातो ज्ञायते, इष्टसंगमविभवलाभादिकञ्च चिन्तयतोऽनुग्रह इति वाच्यम्, असिद्धेः मनस्त्वपरिणतानिष्टपुद्गलनिचयरूपं द्रव्यमनोऽनिष्टचिन्ताप्रवर्त्तनेन जीवस्य देहदौर्बल्याद्यापत्त्या, हृन्निरुद्धवायुवदुपघातं जनयति तदेव च शुभपुद्गलपिण्डरूपं तस्यानुकूलचिन्ताजनकत्वेन हर्षाद्यभिनिर्वृत्त्या भेषजवदनुग्रहं विधत्ते, अतो जीवस्यैवैतौ अनुग्रहोपघातौ द्रव्यमनः करोति, नतु मन्यमानमेर्वादिकं ज्ञेयं मनसः किमप्युपकल्पयतीति । न च चिन्तैव कार्श्याद्युपघातादिजनिका न
१. तथा चात्र प्रयोगः भावमनः जीवरूपं न देहाब्दहिर्निस्सरति देहमात्रव्यापित्वात् ये देहमात्रवृत्तयो न तेषां बहिर्निस्सरणमुपपद्यते यथा तद्गतरूपादीनां देहमात्रव्यापि च जीवरूपं भावमन इति ॥