________________
सूत्र - ६, दशमः किरणः
७०९
(૧૪) આહારક-પુદ્ગલોનું લેવું તે આહાર અપર્યાપ્ત દશાગત ઓજસ્ આહાર, સ્પર્શન-રૂંવાટીથી લેવાતો આહાર લોમાહાર અને કોળિયારૂપે-મુખથી લેવાતો આહાર કવલાહાર-પ્રક્ષેપાહાર, એમ ત્રણ પ્રકારે જે આહાર કરે છે તે આહારક.
આ ચૌદ (૧૪) મૂળભૂત માર્ગણાઓ છે. ઉત્તરભેદો આગળ ઉપર કહેવાતા છે, એવો ભાવ છે.
માર્ગણાઓ એટલે જેના વડે શોધાય, તે માર્ગણાઓ પર્યાલોચના હેતુભૂત અન્વયી ધર્મો અથવા પદાર્થના અન્વેષણસ્થાનો.
अथोत्तरमार्गणा आचष्टे - नरकतिर्यङ्मनुष्यदेवभेदेन चतस्रो गतिमार्गणाः ।६।
नरकेति । नरकगतितिर्यग्गतिमनुष्यगतिदेवगतिभेदेनेत्यर्थः । नरान् कायन्ति शब्दयन्तियोग्यतानतिक्रमेण जन्तूनाकारयन्ति स्वस्वस्थान नारकाः इति पापकर्मणां यातनास्थानानि तत्र गतिस्तद्योग्यपर्यायविशेषो नारकत्वरूपः, नामस्थापनाद्रव्यक्षेत्रकालभावभेदान्नरकपदनिक्षेपाष्षोढा, तत्र नामस्थापने प्रसिद्धे, आगमतो नोआगमतश्च द्रव्यनरको द्विधा, आगमतोऽनुपयुक्तो ज्ञाता, नोआगमतो ज्ञशरीरभव्यशरीरव्यतिरिक्ता इहैव भवे तिर्यग्भवे केचनाशुभकारित्वादशुभास्सत्त्वाः कालसौकरिकादयः । अथवा यानि कानिचिदशुभानि स्थानानि चारकादीनि याश्च नरकप्रतिरूपा वेदनास्तास्सर्वा अपि द्रव्यनरकतयाभिधीयन्ते यद्वा कर्मद्रव्यनोकर्मद्रव्यभेदाāव्यनरको द्वेधा, तत्र नरकवेद्यानि यानि बद्धानि कर्माणि तानि चैकभविकस्य बद्धायुष्कस्याऽभिमुखनामगोत्रस्य चाश्रयेण द्रव्यनरकरूपाणि भवन्ति । नोकर्मद्रव्यनरकास्तु इहैव येऽशुभा रूपरसगन्धशब्दस्पर्शास्ते । क्षेत्रनरकस्तु नरकावकाशकालमहाकालरौरवमहारौरवप्रतिष्ठानाभिधानादिनरकाणां चतुरशीतिलक्षसंख्यानां विशिष्टो भूभागः कालनरकस्तु यत्र यावती स्थितिः । भावनरकाश्च ये जीवा नरकायुष्कमनुभवन्ति ते, तथा नरकप्रायोग्यकर्मोदयः । एतद्वितयमपि भावनरकत्वेनाभिधीयत इति । तिरोऽञ्चन्ति गच्छन्तीति तिर्यञ्चो व्युत्पत्तिनिमित्तञ्चैतत् प्रवृत्तिनिमित्तं तु तिर्यग्गतिनाम । तिर्यङ्नामकर्मोदयनिष्पाद्यतिर्यक्त्वलक्षणपर्यायविशेषस्तिर्यग्गतिः, मनुजगतिनामकर्मोदयसमापादितमनुष्यत्वलक्षणपर्यायविशेषो मनुजगतिः, देवगतिनामकर्मोदयप्रभवदेवत्वलक्षणपर्यायविशेषो देवगतिरित्येवं गतिमार्गणोत्तरभेदाश्चत्वार इति भावः ॥
___ उत्तरमाfguमोनेडे छભાવાર્થ - નરક-તિર્યંચ-મનુષ્ય-દેવના ભેદથી ચાર ગતિમાં માર્ગણાઓ કહેવાય છે.