________________
६६८
तत्त्वन्यायविभाकरे पर्यवसानास्सर्वकर्मणां देशोपशमनास्वामिनः । अथ प्रसङ्गाद्देशोपशमना किञ्चिद्विचार्यते । देशोपशमना मूलप्रकृतीनामष्टानामपूर्वगुणस्थानकादूर्ध्वं गत्वा पततां प्रवर्त्तमाना सादिः, तत्स्थानमप्राप्तानामनादिः, ध्रुवाऽभव्यानां, भव्यानां त्वध्रुवा देशोपशमनामधिकृत्य मोहनीयस्य चतुःपञ्चषट्सप्ताष्टकविंशतिभेदेन षट्प्रकृतिस्थानानि, शेषाणि तु अनिवृत्तिबादरे प्राप्यमाणत्वादत्र न सम्भवन्ति । मिथ्यादृष्टिसास्वादनसम्यमिथ्यादृष्टिवेदकसम्यग्दृष्टीनामष्टाविंशतिस्थानं, उद्वलितसम्यक्त्वस्य मिथ्यादृष्टेः सम्यमिथ्यादृष्टेर्वा षड्विंशतिसत्कर्मणो मिथ्यादृष्टेस्सम्यक्त्वमुत्पादयतोऽपूर्वकरणात्परतः पञ्चविंशतिस्थानं वेदितव्यं मिथ्यात्वप्रदेशोपशमनाया अभावात् । तथानन्तानुबन्धिनामुद्वलनेऽपूर्वकरणात्परतो विद्यमानस्य चतुर्विंशतिस्थानं, चतुर्विंशतिसत्कर्मणो वा चतुर्विंशतिस्थानं । क्षपितसप्तकस्यैकविंशतिस्थानमिति । नामकर्मणस्तु त्र्युत्तरशतं द्वयुत्तरशतं षण्णवतिः पञ्चनवतिः, त्रिनवतिः, चतुरशीतिद्वर्यशीतिश्चेति देशोपशमनायोग्यानि । तत्रादिमानि चत्वारि यावदपूर्वकरणगुणस्थानकचरमसमयं तावद्वेदितव्यानि न परतः, शेषाणि त्रीणि एकेन्द्रियाणां भवन्ति श्रेणि प्रतिपद्यमानानान्तु न सम्भवन्ति शेषाणि स्थानानि अपूर्वकरणगुणस्थानकात्परतोलभ्यन्त इति तानि देशोपशमनाऽयोग्यानि । ज्ञानावरणदर्शनावरणवेदनीयान्तरायाणामेकैकं प्रकृतिस्थानं देशोपशमनायोग्यं तत्र ज्ञानावरणान्तराययोः पञ्चप्रकृत्यात्मकं, दर्शनावरणस्य नवप्रकृत्यात्मकं, वेदनीयस्य द्विप्रकृत्यात्मकं आयुषो द्वे प्रकृतिस्थाने द्वे प्रकृती एका च, तत्राबद्धपरभवायुष्कस्यैका, बद्धपरभवायुषस्तु द्वे, गोत्रस्य द्वे प्रकृतिस्थाने देशोपशमनायोग्ये, एका द्वे चेति, अनुद्वलितोच्चैर्गोत्रस्य द्वे, उद्वलितोच्वैर्गोत्रस्यैकेति ॥
एवं स्थित्यनुभागप्रदेशदेशोपशमनास्थित्यनुभागप्रदेशसंक्रमवत्प्रायो भवत्यतस्साऽन्यत्र
द्रष्टव्या ॥
હવે નિધત્તિકરણને કહે છેભાવાર્થ - કર્મોની ઉદ્વર્તના-અપવર્નનાથી ભિન્ન કરણોના અયોગ્યપણાએ વ્યવસ્થા કરવાને અનુકૂળ वायविशेष, भे निपत्ति' उपाय छे.
વિવેચન - કર્મણમિતિ. જે વીર્યવિશેષથી કર્મોમાં ઉદ્વર્તના અને અપવર્તના સિવાયના કરણો પ્રવર્તતા નથી અને તે ઉદ્દ્વના અને અપવર્તનારૂપી બે કરણો પ્રવર્તે છે, તેવો વીર્યવિશેષ “નિધત્તિ' નામવાળો, એવો અર્થ છે. આ નિધત્તિકરણના પણ દેશોપશમનાની માફક ભેદ અને સ્વામી સમજવા.