________________
सूत्र - १९, नवमः किरणः
६३९
૦ આ વીર્યવિશેષરૂપ યોગના વિષયમાં, અવિભાગ વર્ગણા સ્પર્ધકાન્તર સ્થાન-અનંતરોપનિધાપરંપરોપનિધા-વૃદ્ધિસમય-જીવ અલ્પ-બહુત્વરૂપ પ્રરૂપણાઓ કર્મપ્રકૃતિ આદિ ગ્રંથોથી જાણવી. ઇતિ.
अथ करणविशेषान् लक्षयितुमुपक्रमते -
कर्मणामात्मप्रदेशैस्सहान्योऽन्यानुगमनप्रयोजकवीर्यपरिणामो बन्धनकरणम् । अत्र योगात्मकवीर्येण प्रकृतिप्रदेशयोः कषायैश्च स्थित्यनुभागयोर्बन्धो जायते ।१९।
कर्मणामिति । जीवप्रदेशैस्सहान्योऽन्यानुगतीक्रियतेऽष्टप्रकारं कर्म येन वीर्यविशेषेण तद्वन्धनकरणमित्यर्थः । जीवो हि योगेनौदारिकादिशरीरयोग्यान् पुद्गलस्कन्धान् गृह्णाति, तत्र योगानां जघन्यमध्यमोत्कृष्टत्वे पुद्गलानामपि स्तोकमध्यमप्रभूतानां ग्रहणं जायते, ग्रहणयोग्यां पुद्गलस्कन्धा अन्यतो विज्ञेयाः । स्वप्रदेशावगाढं ग्रहणयोग्यं दलिकमेकमपि सर्वैरेवात्मप्रदेशैः शृंखलावयवानामिव परस्परं सम्बद्धैर्गृह्णाति पुद्गलद्रव्याणाञ्च परस्परं सम्बन्धस्नेहतो विज्ञेयः । तथाच बन्धनकरणसामर्थ्याद्वध्यमानानां मूलोत्तरप्रकृतीनां ज्ञानावारकत्वादिस्वभाववैचित्र्याद्भेदो भवति । दृष्टञ्चैतत्तृणदुग्धादीनां स्वभावभेदाद्वस्तुभेदस्तथात्रापि कर्मत्वेन तुल्यत्वेऽपि स्वभावभेदानेदः । अयञ्च प्रकृतिबन्धः, कर्मणां ज्ञानावारकत्वादिस्वभावस्यैव प्रकृतित्वात्, यथा मोदकस्य वातविनाशकत्वादिस्वभावः प्रकृतिः । तथाचाविवक्षितस्थितिरसप्रदेशः प्रकृतिबन्धोऽविवक्षितरसप्रकृतिप्रदेशः स्थितिबन्धोऽविवक्षितप्रकृतिस्थितिप्रदेशो रसबन्धोऽविवक्षितप्रकृतिस्थितिरसः प्रदेशबन्ध इत्यपि बन्धचतुष्टयलक्षणमूह्यम् । कर्मणां स्थितिश्च मोदकस्य द्वित्रिदिनावस्थानरूपेव प्रतिनियतकालावस्थानरूपा, तस्य स्निग्धमधुरादिरसवत्कर्मणोऽपि रसः शुभाशुभादिः, तथा तस्य प्रदेशा यथैकद्विप्रसृत्यादिप्रमाणास्तथा कर्मणोऽपि बहुतरबहुतमादिरूपा अवसेयाः । तत्र प्रकृतिप्रदेशबन्धौ योगतः स्थितिरसबन्धौ कषायत इत्याहात्रेति । युक्तिः पूर्वमेवोक्ता । प्रकृतिबन्धः पूर्वमादर्शितः साद्यध्रुवादिश्च । प्रदेशबन्धोऽपि जन्तुनाष्टविधबन्धकेन यदेकेनाध्यवसायेन विचित्रतागर्भेण गृहीतं दलिकं तस्याष्टौ भागा भवन्ति, सप्तविधबन्धकस्य
१. आत्मप्रदेशाश्चासंख्येयास्तेषु सर्वप्रकृतिपुद्गला बध्यन्ते एकैकोऽप्यात्मप्रदेशोऽनन्तैर्ज्ञानावरणादिकर्मस्कन्धैर्बद्धः । अनन्तानन्तप्रदेशाः कर्मवर्गणार्हाः पुद्गला बध्यन्ते । न संख्येयप्रदेशा नवाऽसंख्येयप्रदेशा नाप्यनन्तप्रदेशाः । अनन्ते राशौ पुनरनन्तपुद्गलप्रक्षेपादनन्तानन्त इति व्यवहार इति ॥ ... २.. मिथ्यात्वादिचतुष्टयस्य सामान्येन कर्मबन्धहेतुत्वेऽपि प्राथमिककारणत्रयाभावेऽप्युपशान्तमोहादिगुणस्थानकेषु योगबलतो वेदनीयस्य बन्धात् योगाभावेनायोगिगुणस्थाने बन्धाभावाच्च प्रकृतिप्रदेशबन्धयोर्योग एव प्रधानं कारणमवसीयते, कर्मणो जघन्योत्कृष्टरूपतया स्थितिबन्धोत्तरकालीनस्थितिसेवनरूपमनुभवनञ्च क्रोधादिरूपकषायजनितजीवाध्यवसायविशेषात्मककषायाद्भवतीति भावः ॥