________________
सूत्र - ३०-३१, अष्टमः किरणः
५८१ तदिति । ध्यानमित्यर्थः शोकाक्रन्दनविलापादिलक्षणमार्तम् । उत्सन्नबद्धादिलक्षणं रौद्रम् । जिनप्रणीतभावश्रद्धानादिलिङ्गं धर्मम् । अबाधाऽसंमोहनादिलक्षणं शुक्लमिति, विस्तरस्तु यथाक्रममिति ॥
ધ્યાનવિભાગશું આ ધ્યાન દ્વારા આર્ત આદિનો સંગ્રહ કરેલો છે કે નહિ ? આવી શંકાઓમાં સામાન્યથી કહેલ ધ્યાનનો વિભાગ કરતાં લક્ષણનું સર્વમાં વ્યાપ્તપણું છે, એમાં આવિષ્કાર કરતા કહે છે.
भावार्थ - ते ध्यान, भात-रौद्र-भ्य-शुलना मेथी या२ २नु छ. વિવેચન - શોક કરવો, રડવું, રૂદનપૂર્વક બોલવું આદિ લક્ષણવાળું “આર્ત છે. બીજાને ઉચ્છિન્ન કે બદ્ધ કરું, આવા કૂર પરિણામ આદિ ચિહ્નવાળું “રૌદ્ર’ છે. શ્રી જિનકથિત ભાવોની શ્રદ્ધા આદિ ચિહ્નવાળું “ધર્મી છે. બાધાનો અભાવ, સંમોહનો અભાવ આદિ લક્ષણવાળું “શુકલ' છે. શબ્દપ્રપંચરૂપ વિસ્તાર તો ક્રમસર કહેવાતો છે.
अथाऽऽर्त लक्षयति -
इष्टानिष्टवियोगसंयोगरोगनिदानान्यतमविषयकं सोद्वेगचिन्तनमार्त्तम् । षष्ठगुणस्थानं यावदिदं भवति ।३१। ___ इष्टानिष्टेति । ऋतं दुःखं शारीरं मानसञ्चाऽनेकप्रकारं, अथवाऽर्दनमार्तिस्तत्र भवमार्त्तम् । तद्धि चतुर्विधं, तत्रं प्रथममिष्टानां मनोहराणां विषयाणां वियोगे सति तत्प्राप्त्यर्थं सोद्वेगचिन्तनं अर्थान्तरचिन्तनादाधिक्येन प्रकृतेऽवरोधः, ते कथं नाम मे स्युरित्येवं विचिन्तनरूपम् । द्वितीयं, अनिष्टानां शब्दस्पर्शरसगन्धानां विषयाणां संयोगे-इन्द्रियसम्बद्धे सोद्वेगचिन्तनं तद्वियोगाय, कथमहमेभ्यो विमुच्येयेति चेतसो निश्चलीकरणम् । तृतीयं, रोगस्य प्रकुपितानां पवनपित्तश्लेष्मणां सन्निपातेन संजातस्य शूलज्वरादिरूपस्य प्रतिचिकीर्षां प्रत्यागूर्णस्यानवस्थितमनसः धैर्योपरमात् सोद्वेगचिन्तनम् । चतुर्थं पुनः निदानं कारणं मोक्षसुखं विरहय्य पुनर्भवविषयकसुखाय हेतुभूतं कामोपहतचेतसां तद्विषयकं सोद्वेगचिन्तनमिति । चतुर्विधमपीदमा कृष्णनीलकापोतलेश्याबलाधानमज्ञानप्रभवं पौरुषेयपरिणामसमुत्थं पापप्रयोगाधिष्ठितं परिभोगप्रसङ्गं नानासङ्कल्पासङ्गं धर्माश्रयपरित्यागि कषायाश्रयोपस्थानमनुपशमप्रवर्धनं .... १. अमनोज्ञवस्तुसम्बन्धेन सम्बद्धस्य तद्वियोगार्थ स्मृतिः मनोज्ञवस्तुसंयोगेन सम्बद्धस्यामनोज्ञवियोगार्थ स्मृतिः, प्रथमो भेदः, शूलशिरोरोगादिवेदनाया वियोगप्रणिधानं तादृशवेदनाया अभावेऽपि असम्प्रयोगचिन्ता द्वितीयो भेदः, इष्टवस्तूनामिष्टवेदनायाश्चावियोगाध्यवसानं तृतीयो भेदः, निषेवितकामभोगसम्प्रयोगसम्प्रयुक्तस्य तदविप्रयोगस्मृतिसमन्वाहारश्चतुर्थो भेद इत्यपि क्वचित् ॥